अतोऽवस्थामिमां प्राप्तः किं कुर्यामबला यतः
तदा हितं ते वक्ष्यामि कुर्वे तदविचारितम्
यावदास्यं गतास्म्यस्य यावत्खस्थो न भूमिगः
इति पत्नीवचः श्रुत्वा तथा स कृतवान्खगः
तेन चीत्करणेनाथ मुक्ता सा मुखसंपुटात
विपद्यपि च प्राज्ञैर्न संत्याज्यः क्वचिदुद्यमः
क्व च द्वयोस्तथाभूतं दूरे मोक्षणमद्भुतम्
तस्माद्भाग्यानुसारेण फलत्येव सदोद्यमः
अथ तौ कालयोगेन जंबूमार्गे मृतौ तदा
पुण्यशेषे तदा जातो गंधर्वतनयः शुभः 5.2.45.
अनेकविद्यानिलयः कलाकौशलभाजनम्
नियमं चापि जग्राह विजितेद्रियमानसः
परयोषित्समासक्तिरायुः कीर्तिं र्बलं सुखम्
अपरं चापि नियमं स शुचिष्मान्समाददे
समस्तपुण्यनिलयः समस्तार्थप्रकाशकः
यावच्छरीरं निरुजं यावन्नेद्रियविप्लवः
इत्थं मंदारदामिः स काश्यां परिमलालयः
पारावत्यपि संजाता रत्नदीपस्य मंदिरे
समस्तनागकन्यानां रूपशीलकलागुणैः
तस्याः सखीद्वयं चासीदेका नाम्ना प्रभावती 5.2.45.
स्वदेहादनपायिन्यौ छायाकांती यथा तथा
सा तु बाल्ये व्यतिक्रांते किंचिदुद्भिन्नयौवना
पितस्त्रिलोचनं काश्यामर्चयित्वा दिनेदिने
एवं नागकुमारी सा सखीद्वयसमन्विता
मां प्रत्यग्रैः सुकुसुमैः सुशुभैरि ष्टगंधिभिः
तिस्रोऽपि गीतं गायंति ललितं चैव सुस्वरम्
वीणावेणुमृदंगांश्च लयतालविचक्षणाः
इत्थमाराधयंतीशं तिस्रो नागकुमारिकाः
प्रातश्चतुर्थ्यां ताः स्नात्वा तीर्थे पिलिपिले शुभे
सुप्तासु तासु स शिवस्त्रिनेत्रः शशिभूषणः 5.2.45.