सोऽपि क्षेमः सुगतिना यशसा सह वांछ्यते
तद्यशः प्राप्यते पुंभिर्नीतिमार्गं प्रवर्तिभिः न व्रजिष्यसि चेत्प्रातस्ततो मां संस्मरिष्यसि
इत्युक्तोऽपि स वै पत्न्या पारावत्या सुमेधया
अथोषसि समागत्य श्येनेन बलिना तदा
दिनानि कतिचित्तत्रातिष्ठच्छयेनो महाबलः
किं वा युध्यस्व दुर्बुद्धे किं वा निर्याहि मे गिरा विधिरेव हि साहाय्यं न कुर्यात्तव नोदितम्
इत्थं श्येनेन स प्रोक्तः पत्न्या स सहितः खगः
क्षुधितस्तृषितः सोऽथ श्येनेन बलिना धृतः
तावादायोड्डयांचक्रे श्येनो व्योमनि सत्वरम्
अथ पत्न्या कलरवः प्रोक्तस्तत्र सुमेधया 5.2.45.
अतोऽवस्थामिमां प्राप्तः किं कुर्यामबला यतः
तदा हितं ते वक्ष्यामि कुर्वे तदविचारितम्
यावदास्यं गतास्म्यस्य यावत्खस्थो न भूमिगः
इति पत्नीवचः श्रुत्वा तथा स कृतवान्खगः
तेन चीत्करणेनाथ मुक्ता सा मुखसंपुटात
विपद्यपि च प्राज्ञैर्न संत्याज्यः क्वचिदुद्यमः
क्व च द्वयोस्तथाभूतं दूरे मोक्षणमद्भुतम्
तस्माद्भाग्यानुसारेण फलत्येव सदोद्यमः
अथ तौ कालयोगेन जंबूमार्गे मृतौ तदा
पुण्यशेषे तदा जातो गंधर्वतनयः शुभः 5.2.45.
अनेकविद्यानिलयः कलाकौशलभाजनम्
नियमं चापि जग्राह विजितेद्रियमानसः
परयोषित्समासक्तिरायुः कीर्तिं र्बलं सुखम्
अपरं चापि नियमं स शुचिष्मान्समाददे
समस्तपुण्यनिलयः समस्तार्थप्रकाशकः
यावच्छरीरं निरुजं यावन्नेद्रियविप्लवः
इत्थं मंदारदामिः स काश्यां परिमलालयः
पारावत्यपि संजाता रत्नदीपस्य मंदिरे
समस्तनागकन्यानां रूपशीलकलागुणैः
तस्याः सखीद्वयं चासीदेका नाम्ना प्रभावती 5.2.45.