तस्या वाक्यं समाकर्ण्य पुनः कलरवोऽब्रवीत् 5.2.45.
दुर्गं च स्वर्गतुल्यं मे यत्र नास्त्यरितो भयम्
प्रडीनोड्डीनसंडीनकांडव्यांडकपाटिका
यथैतासु हि कौशल्यं मयि वर्त्तति च प्रिये सुखेन तिष्ठ का चिंचा मयि जीवति ते प्रिये
इति तद्वचनं श्रुत्वा आस्थिता मूकवत्सती कियदंतरमासाद्य उपविष्टोऽतिहृष्टवत्।। आयामांते च स स्थित्वा तत्कुलायकुलस्य च
पुनः श्येनो विनिर्यातः सापि कांताऽब्रवीत्पुनः
असौ क्रूरोऽतिनिकटमुपविष्टोऽतिहृष्टवत्
मृगाक्षीणां स्वभावोयं प्रायशो भीरुवृत्तयः
तयोरभिमुखं तत्र स्थितो यामद्वयावधि
गतेथ शकुनौ तस्मिन्सा बभाषे विहंगमम् 5.2.45.
पुनर्दृष्टे प्रणष्टः स्यादावासश्च सुखं प्रिय
स किं स्वदेशरागेण नाशं प्राप्नोति बुद्धिमान्
स पंगुर्ना शमाप्नोति कूलस्थित इव द्रुमः
तां वाक्यं पुनरप्याह प्रिये मा भैः खगार्दिता
तद्द्वारदेशमासाद्य सायं यावत्स्थितोऽचलः
कुलायाद्बाह्यमागत्योवाच पारावती पतिम्
यावत्तावद्विनिर्याहि त्यक्त्वा मामपि शंसिनीम्
पुनर्दाराः पुनः पुत्राः पुनर्वसु पुनर्गृहम्
तदा सर्वं हरिश्चंद्रभूपतेरिव लभ्यते
धर्मार्थकाममोक्षाणामयमात्मार्जकः परः 5.2.45.
सोऽपि क्षेमः सुगतिना यशसा सह वांछ्यते
तद्यशः प्राप्यते पुंभिर्नीतिमार्गं प्रवर्तिभिः न व्रजिष्यसि चेत्प्रातस्ततो मां संस्मरिष्यसि
इत्युक्तोऽपि स वै पत्न्या पारावत्या सुमेधया
अथोषसि समागत्य श्येनेन बलिना तदा
दिनानि कतिचित्तत्रातिष्ठच्छयेनो महाबलः
किं वा युध्यस्व दुर्बुद्धे किं वा निर्याहि मे गिरा विधिरेव हि साहाय्यं न कुर्यात्तव नोदितम्
इत्थं श्येनेन स प्रोक्तः पत्न्या स सहितः खगः
क्षुधितस्तृषितः सोऽथ श्येनेन बलिना धृतः
तावादायोड्डयांचक्रे श्येनो व्योमनि सत्वरम्
अथ पत्न्या कलरवः प्रोक्तस्तत्र सुमेधया 5.2.45.