इति दुर्गे बलं शंसञ्छ्येनो रोषारुणेक्षणः
अथ पारावती दक्षा विपक्षक्षपणेक्षणम् 5.2.45.
तव दृग्विषयं प्राप्तः श्येनोऽयं प्रबलो रिपुः
स च तद्वाक्यमाकर्ण्य पारावत्याश्च सत्पतिः
पारावत उवाच कति नाम न संतीह सुभगे व्योमचारिणः
कति चैव न पश्यंति नौ सुखस्थाविह प्रिये
इत्थं पारावतवराच्छुत्वा पारावती वचः
हितवत्योपदिश्यापि प्रियं प्रियचिकीर्षया
अन्येद्युरप्यथायातः श्येनः पश्यन्स दंपती
अथ मंडलगत्या स प्रासादं परितो भ्रमन्
तस्या वाक्यं समाकर्ण्य पुनः कलरवोऽब्रवीत् 5.2.45.
दुर्गं च स्वर्गतुल्यं मे यत्र नास्त्यरितो भयम्
प्रडीनोड्डीनसंडीनकांडव्यांडकपाटिका
यथैतासु हि कौशल्यं मयि वर्त्तति च प्रिये सुखेन तिष्ठ का चिंचा मयि जीवति ते प्रिये
इति तद्वचनं श्रुत्वा आस्थिता मूकवत्सती कियदंतरमासाद्य उपविष्टोऽतिहृष्टवत्।। आयामांते च स स्थित्वा तत्कुलायकुलस्य च
पुनः श्येनो विनिर्यातः सापि कांताऽब्रवीत्पुनः
असौ क्रूरोऽतिनिकटमुपविष्टोऽतिहृष्टवत्
मृगाक्षीणां स्वभावोयं प्रायशो भीरुवृत्तयः
तयोरभिमुखं तत्र स्थितो यामद्वयावधि
गतेथ शकुनौ तस्मिन्सा बभाषे विहंगमम् 5.2.45.
पुनर्दृष्टे प्रणष्टः स्यादावासश्च सुखं प्रिय
स किं स्वदेशरागेण नाशं प्राप्नोति बुद्धिमान्
स पंगुर्ना शमाप्नोति कूलस्थित इव द्रुमः
तां वाक्यं पुनरप्याह प्रिये मा भैः खगार्दिता
तद्द्वारदेशमासाद्य सायं यावत्स्थितोऽचलः
कुलायाद्बाह्यमागत्योवाच पारावती पतिम्
यावत्तावद्विनिर्याहि त्यक्त्वा मामपि शंसिनीम्
पुनर्दाराः पुनः पुत्राः पुनर्वसु पुनर्गृहम्
तदा सर्वं हरिश्चंद्रभूपतेरिव लभ्यते
धर्मार्थकाममोक्षाणामयमात्मार्जकः परः 5.2.45.