स्मरिष्यति च यो नित्यं प्रभाते चोत्तरेश्वरम्
एष ते कथितो देवि प्रभावः पापनाशनः
श्रीदेवदेव उवाच । यस्य दर्शनमात्रेण सर्वसिद्धिरवाप्यते
इतिहासमिहासीद्यत्पीठे विरजसंज्ञके
नानाभंगिगवाक्षाढ्ये रत्नसानाविवापरे
पार्वणेन शशांकेन खेदादिव समासिते
प्रातः सायं च मध्याह्ने कुर्व न्नित्यप्रदक्षिणम्
रजःप्रासादसंलग्नं दूरीकुर्वद्दिशो दश त्रिविष्टपेति च तथा तयोः कर्णातिथीभवेत्
चतुर्विधानि वाद्यानि शंभुप्रीतिकराण्यलम्
मंगलारात्रिकज्योतिस्त्रिसंध्यं पक्षिणोस्तयोः
प्राणयात्रां विहायापि कदाचित्स्थिरमानसौ
तत्रासकृज्जनाकीर्णं प्रासादं परितोऽवनौ 5.2.45.
देवदक्षिणदिग्भागे विष्णुदेहोद्भवं जलम्
तयोरित्थं विचरतोस्त्रिलोचनसमीपतः
अथ देवालयस्कंधे गवाक्षांतर्गतौ च तौ
तच्च पारावतद्वंद्वं श्येनः परिजिघृक्षया
ततो विलोकयामास तदागमविनिर्गमौ
केनाध्वना च निर्यातः किंकाले कुरुतश्च किम्
दुर्बलोऽप्याकलयितुं सहसारिर्न शक्यते
न कर्म सिद्ध्येन्नृपतेर्दुगेणैकेन यद्भवेत् स्वतंत्रं यदि दुर्गं स्यादपमार्गप्रकाशकम्
इति दुर्गे बलं शंसञ्छ्येनो रोषारुणेक्षणः
अथ पारावती दक्षा विपक्षक्षपणेक्षणम् 5.2.45.
तव दृग्विषयं प्राप्तः श्येनोऽयं प्रबलो रिपुः
स च तद्वाक्यमाकर्ण्य पारावत्याश्च सत्पतिः
पारावत उवाच कति नाम न संतीह सुभगे व्योमचारिणः
कति चैव न पश्यंति नौ सुखस्थाविह प्रिये
इत्थं पारावतवराच्छुत्वा पारावती वचः
हितवत्योपदिश्यापि प्रियं प्रियचिकीर्षया
अन्येद्युरप्यथायातः श्येनः पश्यन्स दंपती
अथ मंडलगत्या स प्रासादं परितो भ्रमन्