गंगेश्वरस्य देवस्य दक्षिणे लिंगमुत्तमम्
एवमुक्तो मया मेघ उत्तरो मेघसंयुतः
दृष्ट्वा वृष्टिकरं लिंगं पूजयामास भक्तितः तावद्यावज्जलं शिप्रां पुनरेवागतं प्रिये
एतस्मिन्नंतरे तस्मादुद्भूतं धूममंडलम्
ततो ज्वालामयं सर्व मभूदम्बरगोचरम्
सनक्षत्रपथं यावत्ततो भीता ग्रहाः प्रिये
ततो ब्रह्मा च विष्णुश्च तद्दृष्ट्वा महदद्भुतम्
तल्लिंगं सुमहाज्वालं ज्वालाभिः पूरितांबरम्
अक्ष्णोर्निमेषमात्रेण ववृधे योजनायुतम् सुरेशो मोहमापन्नो विसंज्ञाश्च ग्रहास्तदा
ततस्तु तस्य लिंगस्य वारिधारा विनिःसृताः 5.2.44.
लिंगस्यान्यप्रदेशात्तु वायुः समभवन्महान्
सधूमा समभूज्ज्वाला लिंगस्यान्य प्रदेशतः
एवमत्यद्भुतं दृष्ट्वा वर्द्धमानं समंततः
ग्रहाश्च विह्वला जाता धूमेनाकुलिते न्द्रियाः
नमोनमो रूपनिराश्रयाय जलस्वरूपाय नमो नमस्ते
इति स्तुतो यदा देवि ग्रहैः क्रूरैस्तदा प्रिये
भस्मधूसरसर्वांगो भोगिभोगांगदोज्ज्वलः उवाच चैतान्प्रणतान्ग्रहान्कंपितक न्धरान
किं वा कामं मनोऽभीष्टं भवद्भ्यो यद्ददाम्यहम्
भवद्भ्यो लोकतुष्ट्यर्थं दर्शनं हि ददाम्यहम्
यदि देयो वरो देव यदि तुष्टोऽसि शंकर तथा कुरु महादेव तेन तृप्तिर्भविष्यति ।। 5.2.44.
एवं भविष्यतीत्युक्त्वा मेघं चोत्तरमुक्तवान्
तच्छ्रुत्वा वचनं तत्र ह्युत्तरः प्राह हर्षितः
यदास्माकं महाबाधां कदा कोपि करिष्यति
रक्षा कार्या च मेघानां रक्षणीयास्त्वया वयम्
अद्यप्रभृति ते नाम्ना ख्यातिं यास्यामि भूतले.
ये मां संपूजयिष्यंति भक्त्या परमया युताः
पश्यंति प्रयता ये मां कृत्वा नियमपूर्वकम्
आरूढाः सूर्यसंकाशैर्विमानैः सार्वकामिकैः
नृत्य वादित्रनिर्घुष्टैरुत्कटध्वनिनादितैः
प्रसंगाद्भक्तिहीनोऽपि यो मां पश्यत्यशाठ्यतः 5.2.44.