एवं व्यवस्थिते लोके मर्यादायां स्थिता घनाः 5.2.44.
क्रूरग्रहैरथो रुद्धास्ते मेघा वृष्टिकारकाः
पीडिताः शरणं जग्मुर्वासवं भयविह्वलाः
मेघानां वचनं श्रुत्वा संत्र स्तो वासवस्तदा ग्रहाणामसमर्थोऽहं सर्वदैव पयोधराः
अहं राज्यात्परिभ्रष्टः कृतः क्रूरग्रहैः पुरा
मम मान्याश्च पूज्याश्च ग्रहा एव यतोधिकाः
एतस्मिन्नंतरे भूमौ संजाता शतवार्षिकी
अस्थिकंकालशकला श्वेतपर्वतसन्निभा
देवाः सर्वे पुनर्भीता ब्रह्माणं शरणं गताः
अनावृष्ट्या जगत्सर्वं पीडितं च पितामह
त्वया च वासवेनैव नियुक्ता ये पयोधराः 5.2.44.
देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः
सर्वं जानामि माहात्म्यं ग्रहाणां क्रूरचेतसाम्
वरुणो यादसां नाथो मंगलेन प्रपीडितः
शिरश्छेदो मया प्राप्तो वक्रेण रविणा पुरा तस्मात्सर्वे महादेवं गच्छामः शरणं वयम्
ब्रह्मणो वचनं श्रुत्वा सर्वे देवाः सवासवाः।. ब्रह्माणं च पुरस्कृत्य मामव शरणं गताः
उक्तोऽहं त्रिदशैः सर्वैः पाहि नः शरणागतान्
क्रूरग्रहैर्महादेव रुद्धा मेघाः समंततः सर्वप्राणिविनाशाय संजाता शतवार्षिकी क्रूरग्रहाणां सामर्थ्यं यथा च विदितं मम
इति ज्ञात्वा महादेवि उपायश्चिंतितो मया आहूतस्तत्क्षणात्प्राप्तः किं करोमीत्युवाच ह
मया प्रोक्तो ममादेशाद्गच्छ त्वं घनसंयुतः 5.2.44.
गंगेश्वरस्य देवस्य दक्षिणे लिंगमुत्तमम्
एवमुक्तो मया मेघ उत्तरो मेघसंयुतः
दृष्ट्वा वृष्टिकरं लिंगं पूजयामास भक्तितः तावद्यावज्जलं शिप्रां पुनरेवागतं प्रिये
एतस्मिन्नंतरे तस्मादुद्भूतं धूममंडलम्
ततो ज्वालामयं सर्व मभूदम्बरगोचरम्
सनक्षत्रपथं यावत्ततो भीता ग्रहाः प्रिये
ततो ब्रह्मा च विष्णुश्च तद्दृष्ट्वा महदद्भुतम्
तल्लिंगं सुमहाज्वालं ज्वालाभिः पूरितांबरम्
अक्ष्णोर्निमेषमात्रेण ववृधे योजनायुतम् सुरेशो मोहमापन्नो विसंज्ञाश्च ग्रहास्तदा
ततस्तु तस्य लिंगस्य वारिधारा विनिःसृताः 5.2.44.