इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्येंऽगारकेश्वरमाहात्म्यवर्णनंनाम त्रिचत्वारिंशोऽध्यायः
यस्य दर्शनमात्रेण समीहितफलं लभेत्
पुरा नियुक्ताः शक्रेण ये मेघा वृष्टिकारकाः
एकार्णवे ततो जाते देवा भीता वरानने
नैवाप्यायनमस्माकं विना होमेन जायते
तेषां वयं प्रयच्छामः कामान्यज्ञादिपूजिताः
दृष्ट्वा पृष्वीं जले मग्नां ब्रह्माणं शरणं गताः
एकार्णवा मही जाता विनष्टाः क्रतवः प्रभो
देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः
अकाले प्रलयः कस्मान्निमग्ना पृथिवी जले
इति संचिंत्य हृदये सस्मार बलसूदनम् 5.2.44.
प्रोवाच वचनं श्रुत्वा नम स्कृत्य पितामहम्
ब्रह्मणोक्तस्तदा शक्रः किमर्थं प्लाविता मही
ततः सर्वे समाहूता मेघाः शक्रेण पार्वति
पितामहेन शक्रेण मर्यादा च कृता तदा
गजाकारैस्ततो मेघैः सहस्रैर्दशभिर्वृतः
शरभः पश्चिमामाशां सहस्राधिपतिः कृतः
उत्तरस्यां दिशि तदा प्रभुत्वे संप्रतिष्ठितः
प्रावृट्काले च वर्षध्वं नक्षत्रैर्जलजैद्रुतम्
ब्रह्मशक्रवचः श्रुत्वा तथेति कृतनिश्चयाः
एवं व्यवस्थिते लोके मर्यादायां स्थिता घनाः 5.2.44.
क्रूरग्रहैरथो रुद्धास्ते मेघा वृष्टिकारकाः
पीडिताः शरणं जग्मुर्वासवं भयविह्वलाः
मेघानां वचनं श्रुत्वा संत्र स्तो वासवस्तदा ग्रहाणामसमर्थोऽहं सर्वदैव पयोधराः
अहं राज्यात्परिभ्रष्टः कृतः क्रूरग्रहैः पुरा
मम मान्याश्च पूज्याश्च ग्रहा एव यतोधिकाः
एतस्मिन्नंतरे भूमौ संजाता शतवार्षिकी
अस्थिकंकालशकला श्वेतपर्वतसन्निभा
देवाः सर्वे पुनर्भीता ब्रह्माणं शरणं गताः
अनावृष्ट्या जगत्सर्वं पीडितं च पितामह