खगर्तेति च विख्याता खाद्भ्रष्टा प्रापतत्क्षितौ
लिंगमूर्तिरहं पुत्र तिष्ठामि सुरपूजितः
पूजितोऽहं त्वया तत्र संगमे लोकपूजिते
मध्ये ग्रहाणां सर्वेषामाधिपत्यं मया तव
पूजां प्राप्स्यसि तत्रैव ग्रहमध्ये व्यवस्थितः
त्वामुद्दिश्य करिष्यंति पूजां शांतिं सदक्षिणाम्
वारश्चैकश्च ते दत्तो मंगलार्थं मया तव तैलाभ्यंगं करिष्यंति न च प्राप्स्यंति ते बलम्
इत्युक्तस्तु मया देवि वक्रांगो मंगलः सुतः
सन्तुष्टस्तेन वाक्येन मदीयेन वरानने
शिप्रायाश्च तटे रम्ये खगर्त्तासंगमांतिकम् ।। 5.2.43.
मया चालिंगितः प्रेम्णा चुम्बितः शिरसि प्रिये
दृष्टोऽहं च त्वया पुत्र भक्त्या चाराधितस्त्वया
अंगारेश्वरनामाहमद्यप्रभृति पुत्रक
ये मां पश्यंति सततं संगमेऽत्र व्यवस्थितम्
ये मां संपूज यिष्यंति ह्यंगारकदिने नराः
चतुर्थ्यां मंगलदिने ये मां पश्यंति सुव्रताः
अमावास्या च भौमश्च संयोगो दृश्यते यदा
स्नात्वा तदा प्रपश्यंति मामत्रैव व्यवस्थितम्
वाराणस्यां प्रयागे च कुरुक्षेत्रे च यत्फलम्
एष ते कथितो देवि प्रभावः पापनाशनः 5.2.43.
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्येंऽगारकेश्वरमाहात्म्यवर्णनंनाम त्रिचत्वारिंशोऽध्यायः
यस्य दर्शनमात्रेण समीहितफलं लभेत्
पुरा नियुक्ताः शक्रेण ये मेघा वृष्टिकारकाः
एकार्णवे ततो जाते देवा भीता वरानने
नैवाप्यायनमस्माकं विना होमेन जायते
तेषां वयं प्रयच्छामः कामान्यज्ञादिपूजिताः
दृष्ट्वा पृष्वीं जले मग्नां ब्रह्माणं शरणं गताः
एकार्णवा मही जाता विनष्टाः क्रतवः प्रभो
देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः
अकाले प्रलयः कस्मान्निमग्ना पृथिवी जले