इति तेषां वचः श्रुत्वा क्षेमार्थं कृपया मया
आदेशो दीयतां देव किं करोमीत्युवाच सः
ममांगाद्रजसा जातस्तेनांगारक उच्यसे
इदानीं वक्रतां यातो वक्रस्त्वं गीयसे बुधैः आहारेण विना देव कथं तृप्तिर्भविष्यति
तस्मान्मे देहि सुस्थानमाधिपत्यं च देहि मे
तस्य तद्वचनं श्रुत्वा पुत्रोऽयं मम वल्लभः
इति संचिन्त्य मनसा स्मृतं स्थानं मयोत्तमम्
दत्तं पुत्र मया स्थानं महाकालवनोत्तमे
खगर्ता चैव शिप्रा च संगमस्तत्र विद्यते
यदा मया धृता गंगा तदा सा चन्द्रमण्डलात् 5.2.43.
खगर्तेति च विख्याता खाद्भ्रष्टा प्रापतत्क्षितौ
लिंगमूर्तिरहं पुत्र तिष्ठामि सुरपूजितः
पूजितोऽहं त्वया तत्र संगमे लोकपूजिते
मध्ये ग्रहाणां सर्वेषामाधिपत्यं मया तव
पूजां प्राप्स्यसि तत्रैव ग्रहमध्ये व्यवस्थितः
त्वामुद्दिश्य करिष्यंति पूजां शांतिं सदक्षिणाम्
वारश्चैकश्च ते दत्तो मंगलार्थं मया तव तैलाभ्यंगं करिष्यंति न च प्राप्स्यंति ते बलम्
इत्युक्तस्तु मया देवि वक्रांगो मंगलः सुतः
सन्तुष्टस्तेन वाक्येन मदीयेन वरानने
शिप्रायाश्च तटे रम्ये खगर्त्तासंगमांतिकम् ।। 5.2.43.
मया चालिंगितः प्रेम्णा चुम्बितः शिरसि प्रिये
दृष्टोऽहं च त्वया पुत्र भक्त्या चाराधितस्त्वया
अंगारेश्वरनामाहमद्यप्रभृति पुत्रक
ये मां पश्यंति सततं संगमेऽत्र व्यवस्थितम्
ये मां संपूज यिष्यंति ह्यंगारकदिने नराः
चतुर्थ्यां मंगलदिने ये मां पश्यंति सुव्रताः
अमावास्या च भौमश्च संयोगो दृश्यते यदा
स्नात्वा तदा प्रपश्यंति मामत्रैव व्यवस्थितम्
वाराणस्यां प्रयागे च कुरुक्षेत्रे च यत्फलम्
एष ते कथितो देवि प्रभावः पापनाशनः 5.2.43.