वसूनां कारणाद्देवि शप्ता यस्मान्महानदि
महाकालवने रम्ये सिद्धगंधर्वसेविते
सर्वसिद्धिकरं पुण्यं सर्वपातकनाशनम्
पितामहवचः श्रुत्वा तुष्टा त्रिपथगामिनी शिप्रापि मे प्रिया पुण्या महापातकनाशिनी
इति संचिंत्य मनसा दिव्या देवनदी तदा
पूजयामास पयसा दिव्येन विधिना तदा
ततः प्रभृति संजाता सा शिप्रा पूर्ववाहिनी गंगयाराधितो यस्मात्समीहितफलप्रदः
संस्तुता देवगंधर्वैर्गंगा देवनदी तदा 5.2.42.
समुद्रस्तत्र संप्राप्तो मानिता सा महानदी
तत्समीपे महापुण्ये यावत्तिष्ठति मेदिनी
एवमुक्त्वा गता गंगा कलया तत्र संस्थिता
गोसहस्रफलं तस्य जायते नात्र संशयः
सर्वयज्ञफलं सम्यक्सर्वदानफलं तथा
तत्र तीर्थानि सुभगे पृथिव्यां यानि कानिचित्
प्रयागं च कुरुक्षेत्रं केदारममरेश्वरम्
गोदावरी शतद्रुश्च बाहुदा वेत्रवत्यपि
गुप्तानि पुण्यतीर्थानि सिद्धक्षेत्राणि चैव हि
एतेषां फलमाप्नोति यः पश्यति समाहितः अतः पुण्यतमं स्थानं गीयते गणवंदिते ।।5.2.42.
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये गंगेश्वर माहात्म्यवर्णनंनाम द्वाचत्वारिंशोऽध्यायः
यस्य दर्शनमात्रेण जायते सर्वसंपदः
आदिकल्पे पुरा जातो वक्रांगो लोहितच्छविः मया धृतो धरण्यां स विख्यातो भूमिपुत्रकः
जातमात्रे सुते तस्मिन्महाकाये भयावहे
क्षोभं गताः समुद्राश्च चेलुश्च धरणीधराः
ऋषयो वालखिल्याश्च देवाः शक्रपुरोगमाः
सोच्छ्वाँसाः कथयामासुर्नमस्कृत्य पितामहम्
हरगात्रोद्भवेनैव जातमात्रेण लीलया
तच्छ्रुत्वा वचनं तेषां ब्रह्मा लोकपितामहः
मया पृष्टास्तु ते सर्वे किमर्थं भयविह्वलाः
तैः सर्वं कथितं देवि ममाग्रे भयविह्वलैः पीडितं भक्षितं चैव सदेवासुरमानवम् ।। 5.2.43.