वेदेषु मम माहात्म्यं विश्वाधिकतया श्रुतम्
सर्वोपि जंतुरात्मानमधिकं मन्यते भृशम्
यद्यहं क्वापि भुवने दास्यामि मितिमात्मनः 1.3.1.1.
इति निश्चित्य मनसा स्वयमेव सदाशिवः
अतीत्य सकलाँल्लोकान्सर्वतोऽग्निरिव ज्वलन्
अनाद्यंततया चाथ दृगार्तौ संव्यतिष्ठताम्
आवयोः पुरतो जाता वाणी चाप्यशरीरिणी
युवयोर्बलवैषम्यं शिव एव विवेक्ष्यते
आद्यंतयोर्यदि युवामीक्षिषाथां बलाधिकौ
अहं विष्णुश्च गतिमान्विचेतुं तद्व्यवस्थितौ
आलोकितुं व्यवसितावावामाद्यंतभागतः
तथैवावां समुद्युक्तौ परिच्छेत्तुं च तन्महः
तन्मूलविचयाऽयाच्च भूमिगर्भं व्यदारयत् 1.3.1.1.
दिदृक्षुस्तच्छिरोभागं वियदूर्ध्वमगाहिषम्
आविर्भूतमिवाधस्तादग्निस्तंभमवैक्षत
अपश्यन्नादिमक्षय्यमार्तरूपः स विह्वलः
श्रमातुरस्तृषाक्रांतो नो यातुमशकद्धरिः
विहंतुमपि विश्रांतो विषसाद रमापतिः
गलितश्रीः क्रियाश्रांतः शरण्यं शिवमाश्रयन् ।। धिङ्ममेदं महन्मौग्ध्यमहंकारसमुद्भवम्
अयं हि सर्ववेदानां देवानां जगतामपि
यन्मयान्वेष्टुमारब्धं शिवं पशुवपुर्धृता
पुनरेवेदृशी लब्धा मतिर्मे स्वात्मबोधिना 1.3.1.1.
तस्य सद्यो भवेज्ज्ञानमनहंकारमात्मजम्
निवेदयामि चात्मानं शरणं यामि शंकरम्
सत्प्रसादाद्भूतपतेः पुनरेवोद्धुतः क्षितौ
आघूर्णमाननयनः श्लथपक्षः श्रमं गतः
तेजःस्तम्भं स्थूललिंगाभं शैवं तेजः सुरार्चितम्
नित्यां शंभोः परां कोटिं दिदृक्षुं मां कृतोद्यमम्
आसन्नदेहपातोऽपि नाहंकारोऽस्य वै गतः
अपारतेजसि व्यर्थो विमोहोऽयं भविष्यति