ततः संवर्द्धमानार्करश्मिसंगतिपावनी
मेरुकूटतटान्तेभ्यो निपतन्ती यशस्विनी
मन्दरादिषु शैलेषु प्रविभक्तोदका समम्
तत्प्लायित्वा च ययावरुणोदं सरिद्वरा
तथैवालकनन्दाख्या दक्षिणे गन्धमादने
मानसं च महावेगात्प्लावयित्वा सरोवरम्
तस्माच्च पर्वताः सर्वे प्लावितास्तत्क्षणात्प्रिये
मया धृता च तत्रैव जटाजूटेन पार्वति 5.2.42.
गात्राणि प्लावयामास मदीयानि वरानने
तत्रैव सा तपश्चक्रे बहुकल्पशतानि च
तदा मुक्ता मया देवि गंगा त्रिपथगामिनी
समुद्रमहिषी जाता प्राणेभ्योऽपि गरीयसी स तया सहितो रेमे समुद्रः सरितांपतिः
ततः कदाचिद्ब्रह्माणमुपासांचक्रिरे सुराः गंगया सहितो देवि दर्शनार्थं महोत्सवे
अथ गंगा सरिच्छ्रेष्ठा समुपायात्पितामहम्
ततोऽभवन्सुरगणाः सहसाऽवाङ्मुखास्तदा
तस्य भावं विदित्वाऽथ ब्रह्मणा स तिरस्कृतः
गंगा शप्ताथ क्रुद्धेन समुद्रेण यशस्विनि
लोकमल्पायुषं दीना तत्र दुःखमवाप्स्यसि 5.2.42.
विनापराधाच्छप्ताहं कस्माद्वै देवसंसदि
प्रमादाद्वस्त्रमुद्धूतं वायुना व्यापकेन तु
वसूनां कारणाद्देवि शप्ता यस्मान्महानदि
महाकालवने रम्ये सिद्धगंधर्वसेविते
सर्वसिद्धिकरं पुण्यं सर्वपातकनाशनम्
पितामहवचः श्रुत्वा तुष्टा त्रिपथगामिनी शिप्रापि मे प्रिया पुण्या महापातकनाशिनी
इति संचिंत्य मनसा दिव्या देवनदी तदा
पूजयामास पयसा दिव्येन विधिना तदा
ततः प्रभृति संजाता सा शिप्रा पूर्ववाहिनी गंगयाराधितो यस्मात्समीहितफलप्रदः
संस्तुता देवगंधर्वैर्गंगा देवनदी तदा 5.2.42.
समुद्रस्तत्र संप्राप्तो मानिता सा महानदी
तत्समीपे महापुण्ये यावत्तिष्ठति मेदिनी