ततः सभार्यो नृपतिः प्रार्थयामास नारदम्
एवमुक्तस्तु लुम्पेन नारदो भगवानृषिः
महाकालवने राजँल्लिंगं कुष्ठहरं परम्
शिप्रायाश्च तटे रम्ये केशवार्कस्य पूर्वतः
एवमुक्तस्तु लुंपोऽसौ ह्याजगाम त्वरान्वितः
प्राप्तः स्वर्गोपमं भूपः शिप्रया परिशोभितम्
स्नात्वा शिप्राजले पुण्ये महापातकनाशने 5.2.41.
कुष्ठरोगेण मुक्तस्तु मुक्तो वै ब्रह्महत्यया
स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः
ततः कृतस्वस्त्वयनस्तापसैस्तैर्महात्मभिः
कृतं नाम तदा तस्य लिंगस्य कमलानने लुम्पेश्वर इति ख्यातो भविष्यति महीतले
पूजयिष्यंति ये भक्त्या लिंगं लुम्पेश्वरं परम्
प्रार्थयिष्यंति यान्कामान्मनसा। चेप्सितान्प्रियान्
महापापसमायुक्तो यः पश्यति समाहितः
गोघ्नश्चैव कृतघ्नश्च मातृहा गुरुतल्पगः
लुम्पेश्वरं सकृत्पश्यन्मुच्यते सर्वकिल्बिषैः
इत्युक्त्वा मुनयः सर्वे पूजयामासु रन्विताः 5.2.41.
एष ते कथितो देवि प्रभावः पापनाशनः
यस्य दर्शनमात्रेण सर्वतीर्थफलं लभेत्
पदात्प्रवृत्ता या देवी गंगा त्रिपथगा नदी
ततः संवर्द्धमानार्करश्मिसंगतिपावनी
मेरुकूटतटान्तेभ्यो निपतन्ती यशस्विनी
मन्दरादिषु शैलेषु प्रविभक्तोदका समम्
तत्प्लायित्वा च ययावरुणोदं सरिद्वरा
तथैवालकनन्दाख्या दक्षिणे गन्धमादने
मानसं च महावेगात्प्लावयित्वा सरोवरम्
तस्माच्च पर्वताः सर्वे प्लावितास्तत्क्षणात्प्रिये
मया धृता च तत्रैव जटाजूटेन पार्वति 5.2.42.
गात्राणि प्लावयामास मदीयानि वरानने
तत्रैव सा तपश्चक्रे बहुकल्पशतानि च