समाधिध्याननिरतं प्रोक्तमस्माभिरादरात्
अक्षयं तु पदं प्राप्तं त्वया लिंगस्य दर्शनात् नाम्ना कुण्डेश्वरो यस्मात्सर्वसंपत्करः सदा
कुण्डेश्वरमनादिं तु भक्त्या पश्यति यो नरः
तस्य दानफलं सर्वं सर्वतीर्थफलं सदा 5.2.40.
दशानामश्वमेधानामग्निष्टोमशतस्य च
प्रातः पश्यंति ये भक्त्या कृत्वा नियमपूर्वकम्
एष ते कथितो देवि प्रभावः पापनाशनः
लुंपेश्वरमिति ख्यातं नाम यस्य महीतले
देशे म्लेच्छगणाकीर्णे बभूव जगतीपतिः
तस्यासीद्दयिता भार्या विशालानाम नामतः
स युद्धकामो नृपतिः पर्यपृच्छद्विजोत्तमान्
अथ केनापि कथितमाश्रमे सामगो द्विजः
ततः स प्रस्थितो राजा म्लेच्छैः सार्द्धं सहस्रशः
दस्युभिः संवृतः क्रूरैः क्रोधेनाकुलितेंद्रियः
मुनिना पूजितस्तेन मधुपर्कादिविष्टरैः
प्रार्थयामास सहसा न दत्ता मुनिना तदा वनं बभंज सकलं तस्य विप्रस्य पश्यतः
काल्यमानां च गां दृष्ट्वा वत्सं चातीव दुःखितम् 5.2.41.
एवं वदंतं विप्रेंद्रं शरैस्तीक्ष्णैर्जघान ह
असकृत्पुत्रपुत्रेति विलपंतमनाथवत्
एतस्मिन्नंतरे पुत्रः समित्पाणिरुपागतः अनागसं महात्मानं विललाप सुदुःखितः
केनेदं कुत्सितं कर्म कृतं पापेन मे पिता
विलप्यैवं सकरुणं बहुना नाविधं तथा
ददाह पितरं चाग्नौ तोयमादाय सत्वरम्
स्वधर्मनिरतो विद्वान्येन मे निहतः पिता
एतस्मिन्नन्तरे राजा कुष्ठरोगेण पीडितः
औषधैरधिकोऽभ्येति ब्रह्मशापप्रभावतः
चितां कर्तुं समारेभे समायातोऽथ नारदः 5.2.41.
अथ पप्रच्छ लुंपोऽसौ नारदं मुनिसत्तमम् तेनाहं पीडितोऽतीव न च शांतिं व्रजत्यसौ
औषधैर्वर्द्धते कस्मादेतदाख्यातुमर्हसि
तस्य तद्वचनं श्रुत्वा लुंपाधीशस्य नारदः