मदीयं चिंतितं ज्ञात्वा ममपार्श्वमुपागतः
प्रस्थितस्तत्क्षणाच्छीघ्रं गणैर्नानाविधैः सह
रणद्वलयबाहुभ्यां गाढमालिंगितो ह्यहम्
वृषो मया विशालाक्षि स कृष्टो गणपैस्तदा 5.2.40.
श्रांतास्मि सांप्रतं देव वेगेनानेन भीषिता
क्षणं पद्भ्यां गमिष्यामि विषमोयं गिरिर्महान्
मुहूर्त्तं चारुजघने शैलपादमुपाश्रिता
पंथान त्वत्सुखं यत्र तं वयं मृगयावहे त्वदाज्ञावशवर्त्ती च किंकरः स्थापितो मया
एवमुक्त्वा ततो देवि संस्थाप्य गणरक्षकम्
ततोऽवलोकितोऽत्यर्थं रमणीयो महा गिरिः
पश्यतो मम शैलेंद्रं गताः संवत्सरा दश
नूनं न मदनातप्तां वेत्ति मां रतिवर्जिताम्
हरस्य क्वापि यातस्य वैरं संस्मृत्य चित्तजः विलोकयंतीं हा दृष्ट्वा विलपंतीं पुनः पुनः
ततः कुण्डो गणाध्यक्षो ज्ञात्वा भावं त्वदीयकम् 5.2.40.
आयात एष ते भर्त्ता मा चेतः कलुषं कुरु
दुःखार्त्तया त्वया प्रोक्तः कुण्ड वेद्मि न शंकरम् दर्शयस्व महादेवमित्युक्तोऽ सौ पुनःपुनः
यदा न दर्शितस्तेन कुण्डेनाहं वरानने
गच्छ त्वं मानुषं लोकं यस्मान्न कथितो हरः
पृष्टश्चाहं त्वया देवि विहाय क्व गतोऽसि माम्
गत्वाग्रे भूधरस्यास्य किं कृतं च त्वया विभो
दुराधर्षतरः शैलः समंताद्दुरतिक्रमः
येन मार्गेण विश्रब्धं गमिष्यामः सुमध्यमे
त्वयाप्युक्तं महादेव कुण्डः शप्तो मया गणः । ममाज्ञा न कृता यस्माद्विफलं न वचो मम
भैरवं रूपमास्थाय यत्र त्वं चोत्तरे स्थितः 5.2.40.
तस्य दर्शन मात्रेण गणपोऽयं भविष्यति
इत्युक्तः स त्वया देवि समासाद्य पुनःपुनः
महाकालवनं शीघ्रं लिंगमाराध्य सत्वरम्
इत्युक्तस्तत्क्षणात्प्राप्तो दृष्ट्वा लिङ्गं तु शाश्वतम्
ततो देवाः सगंधर्वाः सिद्धाश्च परमर्षयः
अथाहं तत्क्षणात्प्राप्तस्त्वया सार्द्धं गणैर्वृतः