स्वनामपूर्विकां मूर्तिं स्थापयामास चक्रिणः
ततः प्रभति विप्रेश शंखचक्रगदाधरः
कार्तिके शुक्लपक्षस्य प्रारभ्य दशमी तिथिम्
चक्रतीर्थे नरः स्नात्वा सर्वपापैः प्रमुच्यते
पितॄनुद्दिश्य यस्तत्र पिंडान्निर्वापयिष्यति
चक्रतीर्थे नरः स्नात्वा दृष्ट्वा विष्णुहरिं विभुम्
स्वशक्त्या तत्र दानानि दत्त्वा निष्कल्मषो नरः
अन्यदापि नरस्तत्र चक्रतीथे जितेंद्रियः
इति सकलगुणाब्धिर्ध्येयमूर्तिश्चिदात्मा हरिरिह परमूर्त्या तस्थिवान्मुक्तिहेतोः
विभोर्विष्णुहरेश्चापि पुनराह द्विजोत्तमाः
अगस्त्य उवाच पुरा ब्रह्मा जगत्स्रष्टा विज्ञाय हरिमच्युतम्
आगत्य कृतवांस्तत्र यात्रां ब्रह्मा यथाविधि
ततः स कृतवांस्तत्र ब्रह्मा लोकपितामहः
विस्तीर्णजलकल्लोलकलितं कलुषापहम्
हंससारसचक्राह्व विहंगममनोहरम्
तत्र कुण्डे सुराः सर्वे स्नाताः शुद्धिसमन्विताः
तदाश्चर्य्यं महद्दृष्ट्वा ते सर्वे सहसा सुराः
अस्य कुण्डस्य सकलं खातस्य विमलत्विषः
अत्र स्नानेन सर्वेषामस्माकं विगतं रजः सर्वे वयं सुरश्रेष्ठ कृपया त्वमतो वद ।। 2.8.2.
कुण्डस्यैतस्य माहात्म्यं नानाफलसमन्वितम्
अत्र स्नानेन विधिवत्पापात्मानोऽपि जंतवः निवसंति ब्रह्मलोके यावदाभूतसंप्लवम्
अत्र दानेन होमेन यथाशक्त्या सुरोत्तमाः
ममास्मिन्सरसि श्रीमाञ्जायते स्नानतो नरः
सर्वयज्ञसमं स्याद्वै महापातकनाशनम्
अस्मिन्कुण्डे च सांनिध्यं भविष्यति सदा मम
यात्रा भविष्यति सदा सुराः सांवत्सरी मम
स्वर्णं चैव सदा देयं वासांसि विविधानि च
अन्तर्दधे सुरैः सार्द्धं तीर्थं दृष्ट्वा तपोधन
तदाप्रभृति तत्कुण्डं विख्यातं परमं भुवि 2.8.2.
सूत उवाच इत्युक्त्वा स तपोराशिरगस्त्यः कुंभसंभवः