यस्यास्यकमलगलितं वाङ्मयममृतं जगत्पिबति
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
त्रिकालज्ञा महात्मानो नैमिषारण्यवासिनः
येऽर्बुदारण्यनिरता दण्डकारण्यवासिनः
जंबूवनरता ये च ये गोदावरिवासिनः
उज्जयिन्यां रता ये च प्रथमाश्रमवासिनः
मायापुरीश्रिता ये च ये च कान्तीनिवासिनः
कुरुक्षेत्रे महाक्षेत्रे सत्रे द्वादशवार्षिके समागताः समाहूताः सर्वे ते मुनयोऽमलाः
सर्वे ते शुद्धमनसो वेदवेदांगपारगाः
भारद्वाजं पुरस्कृत्य वेदवेदांगपारगम् 2.8.1.
उपविष्टाः कथाश्चक्रुर्नानातीर्थाश्रितास्तदा
कथांतेषु ततस्तेषां मुनीनां भावितात्मनाम्
व्यासशिष्यः पुराणज्ञो समः हर्षणसंज्ञकः उपविष्टो यथान्यायं मुनीनां वचनेन सः
व्यासशिष्यं मुनिवरं सूतं वै रोमहर्षणम्
सरहस्यानि सर्वाणि पुराणानि महामते
सांप्रतं श्रोतुमिच्छामः सरहस्यं सनातनम्
कीदृशी सा सदा मेध्याऽयोध्या विष्णुप्रियापुरी
संस्थानं कीदृशं तस्यास्तस्यां के च महीभुजः
अयोध्यासेवनान्नृणां फलं स्यात्सूत कीदृशम्
तत्र स्नानेन किं पुण्यं दानेन च महामते 2.8.1.
एतत्सर्वं क्रमेणैव तथ्यं त्वं वेत्थ सांप्रतम्
सेतिहासानि सर्वाणि सरहस्यानि तत्त्वतः
तं प्रणम्य प्रवक्ष्यामि माहात्म्यं भवदग्रतः
विद्यावन्तं विपुलमतिदं वेदवेदांगवेद्यं श्रेष्ठं शान्तं शमितविषयं शुद्धतेजोविशालम्
ॐ नमो भगवते तस्मै व्यासायामिततेजसे
शृण्वन्तु मुनयः सर्वे सावधानाः सशिष्यकाः
उदीरितमगस्त्याय स्कन्देनाश्रावि नारदात्
कृष्णद्वैपायनाच्चैतन्मया प्राप्तं तपोधनाः
नमामि परमात्मानं रामं राजीवलोचनम्
अयोध्या सा परा मेध्या पुरी दुष्कृतिदुर्ल्लभा 2.8.1.