लिंगंनाभिस्तथाजिह्वानासाग्रञ्चशिखाक्रमात् कट्यादिषुत्रिलोकेषु लिंगमाध्यात्मिकंचरम्
पर्वतंपौरुषं प्रोक्तंभूतलं प्राकृतं विदुः वृक्षादि पौरुषं ज्ञेयं गुल्मादि प्राकृतं विदुः
षाष्टिकं प्राकृतं ज्ञेयं शालिगोधूमपौरुषम् ऐश्वर्यं पौरुषं विद्यादणिमाद्यष्टसिद्धिदम्
सुस्त्रीधनादिविषयं प्राकृतं प्राहुरास्तिकाः प्रथमं चरलिंगेषु रसलिंगं प्रकथ्यते
रसलिंगंब्राह्मणानांसर्वाभीष्टप्रदंभवेत् बाणलिंगंक्षत्रियाणां महाराज्यप्रदंशुभम्
स्वर्णलिंगं तु वैश्यानांमहाधनपतित्वदम् शिलालिंगंतुशूद्राणांमहाशुद्धिकरंशुभम्
स्फाटिकंबाणलिंगं च सर्वेषांसर्वकामदम् स्वीयाभावे ऽन्यदीयंतुपूजायांननिषिद्ध्यते
स्त्रीणांतुपार्थिवंलिंगंसभत्ःणांविशेषतः विधवानांप्रवृत्तानांस्फाटिकं परिकीर्तितम्
विधवानां निवृत्तानां रसलिंगं विशिष्यते बाल्येवायौवनेवापिवार्धकेवापिसुव्रताः
शुद्धस्फटिकलिंगंतुस्त्रीणांतत्सर्वभोगदम् प्रवृत्तानांपीठपूजासर्वाभीष्टप्रदा भुवि
पात्रेणैवप्रवृत्तस्तुसर्वपूजांसमाचरेत् अभिषेकांतेनैवेद्यंशाल्यन्नेनसमाचरेत्
पूजांतेस्थापयेल्लिंगंसंपुटेषुपृथग्गृहे करपूजानिवृत्तानांस्वभोज्यंतुनिवेदयेत्
निवृत्तानांपरंसूक्ष्मलिंगमेवविशिष्यते विभूत्यभ्यर्चनं कुर्याद्विभूतिंचनिवेदयेत्
पूजांकृत्वाथतल्लिंगंशिरसाधारयेत्सदा विभूतिस्त्रिविधाप्रोक्तालोकवेदशिवाग्निभिः
लोकाग्निजमथो भस्मद्रव्यशुद्ध्यर्थमावहेत् मृद्दारुलोहरूपाणांधान्यानांचतथैवच
तिलादीनां च द्रव्याणांवस्त्रादीनांतथैव च तथापर्युषितानांचभस्मनाशिद्धिरिष्यते
श्वादिभिर्दूषितानांचभस्मनाशुद्धिरिष्यते सजलंनिर्जलंभस्म यथायोग्यं तु योजयेत्
वेदाग्निजंतथाभस्मतत्कर्मांतेषु धारयेत् मंत्रेणक्रिययाजन्यंकर्माग्नौ भस्मरूपधृक्
तद्भस्मधारणात्कर्म स्वात्मन्यारोपितं भवेत् अघोरेणात्मंत्रेण बिल्वकाष्ठंप्रदाहयेत्
शिवाग्निरितिसंप्रोक्तस्तेनदग्धंशिवाग्निजम् कपिलागोमयं पूर्वं केवलं गव्यमेव वा
शम्यस्वत्थपलाशान्वावटारम्वधबिल्वकान् शिवाग्निनादहेच्छुद्धंतद्वैभस्म शिवाग्निजम्
दर्भाग्नौ वादहेत्काष्ठंशिवमंत्रंसमुच्चरन् सम्यक्संशोध्यवस्त्रेणनवकुंभेनिधापयेत्
दीप्त्यर्थं तत्तु संग्राह्यं मन्यते पूज्यतेपि च भस्मशब्दार्थ एवं हि शिवःपूर्वंतथा ऽकरोत्
यथास्वविषयेराजासारंगृह्णातियत्करम् यथामनुष्याःसस्यादीन्दग्ध्वासारंभजंतिवै
यथाहिजाठराग्निश्चभक्ष्यादीन्विविधान्बहून् दग्ध्वासारतरंसारात्स्वदेहंपरिपुष्यति
तथाप्रपञ्चकर्तापिसशिवःपरमेश्वरः स्वाधिष्ठेयप्रपञ्चस्यदग्ध्वासारंगृहीतवान्
दग्ध्वाप्रपञ्चंतद्भस्मस्वात्मन्यारोपयच्छिवः उद्धूलनेनव्याजेन जगत्सारं गृहीतवान्
स्वरत्नंस्थापयामास स्वकीयेहिशरीरके केशमाकाशसारेणवायुसारेणवैमुखम्
हृदयंचाग्निसारेणत्वपांसारेणवैकटिम् जानुचावनिसारेणतद्वत्सर्वं तदंगकम्
ब्रह्मविष्ण्वोश्चरुद्राणांसारंचैवत्रिपुंड्रकम् तथातिलकरूपेणललाटान्तेमहेश्वरः