निःस्पृहस्य च पूर्णस्यतस्य पूजाकथं भवेत् शिवोद्देशकृतं कर्म प्रसादजनकं भवेत्
लिंगेबेरेभक्तजनेशिवमुद्दिश्यपूजयेत् कायेनमनसावाचाधनेनापिप्रपूजयेत्
पुजया तु महेशो हि प्रकृतेः परमः शिवः प्रसादंकुरुतेसत्यंपूजकस्यविशेषतः
शिवप्रसादात्कर्माद्यंक्रमेणस्ववशंभवेत् कर्मारभ्यप्रकृत्यंतंयदासर्वं वशंभवेत्
तदामुक्त इतिप्रोक्तःस्वात्मारामोविराजते प्रसादात्परमेशस्यकर्म देहोयदावशः
तदावैशिवलोकेतुवासःसालोक्यमुच्यते सामीप्यंयातिसांबस्यतन्मात्रेचवशंगते
तदातुशिवसायुज्यमायुधाद्यैः क्रियादिभिः महाप्रसादलाभेचबुद्धिश्चापिवशाभवेत्
बुद्धिस्तुकार्यंप्रकृतेस्तत्सृष्टिरितिकथ्यते पुनर्महाप्रसादेनप्रकृतिर्वशमेष्यति
शिवस्यमानसैश्वर्यंतदा ऽयत्नंभविष्यति सार्वज्ञाद्यंशिवैश्वर्यंलब्ध्वास्वात्मनि राजते
तत्सायुज्यमितिप्राहुर्वेदागमपरायणाः एवंक्रमेणमुक्तिःस्याल्लिंगादौपूजयास्वतः
अतःशिवप्रसादार्थंक्रियाद्यैःपूजयेच्छिवम् शिवक्रिया शिवतपः शिवमंत्रजपः सदा
शिवज्ञानंशिवध्यानमुत्तरोत्तरमभ्यसेत् आसुप्तेरामृतेःकालंनयेद्वैशिवचिंतया
लिंगादौशिवपूजायाविधानंब्रूहिसर्वतः
लिंगानांचक्रमंवक्ष्येयथावच्छृणुत द्विजाः तदेवलिंगं प्रथमं प्रणवं सार्वकामिकम्
सूक्ष्मप्रणवरूपंहिसूक्ष्मरूपंतुनिष्फलम् स्थूललिंगं हि सकलंतत्पञ्चाक्षरमुच्यते
तयोः पूजातपः प्रोक्तंसाक्षान्मोक्षप्रदे उभे पौरुषप्रकृतिभूतानिलिंगानिसुबहूनिच
तानि विस्तरतोवक्तुं शिवो वेत्तिनचापरः भूविकाराणिलिंगानिज्ञातानिप्रब्रवीमिवः
स्वयंभूलिंगंप्रथमंबिंदुलिंगंद्वितीयकम् प्रतिष्ठितंचरंचैवगुरुलिंगंतु पञ्चमम्
देवर्षितपसा तुष्टः सान्निध्यार्थंतुतत्रवै पृथिव्यन्तर्गतःशर्वोबीजं वै नादरूपतः
स्थावरांकुरवद्भूमिमुद्भिद्य व्यक्त एव सः स्वयंभूतं जातमिति स्वयंभूरिति तं विदुः
तल्लिंगपूजया ज्ञानं स्वयमेव प्रवर्धते सुवर्णरजतादौ वा पृथिव्यांस्थिंडिलेपिवा
स्वहस्ताल्लिखितं लिंगं शुद्धप्रणवमंत्रकम् यंत्रलिंगं समालिख्य प्रतिष्ठावाहनं चरेत्
बिंदुनादमयंलिंगंस्थावरंजंगमंचयत् भावनामयमेतद्धि शिवदृष्टं न संशयः
यत्र विश्वस्यते शंभुस्तत्र तस्मै फलप्रदः स्वहस्ताल्लिख्यते यंत्रे स्थावरादावकृत्रिमे
आवाह्यपूजयेच्छंभुंषोडशैरुपचारकैः स्वयमैस्वर्यमाप्नोतिज्ञानमभ्यासतोभवेत्
देवैश्च ऋषिभिश्चापिस्वात्मसिद्ध्यर्थमेवहि समंत्रेणात्महस्तेनकृतंयच्छुद्धमंडले
शुद्धभावनया चैवस्थापितं लिंगमुत्तमम् तल्लिंगंपौरुषं प्राहुस्तत्प्रतिष्ठितमुच्यते
तल्लिंगपूजयानित्यंपौरुषैश्वर्यमाप्नुयात् महद्भिर्ब्राह्मणैश्चापिराजभिश्चमहाधनैः
शिल्पिनाकल्पितंलिंगंमंत्रेणस्थापितंचयत् प्रतिष्ठितंप्राकृतंहिप्राकृतैश्वर्यभोगदम्
यदूर्जितंचनित्यं च तद्धि पौरुषमुच्यते यद्दुर्बलमनित्यं च तद्धि प्राकृतमुच्यते