शिवलिंगं शिवंमत्वास्वात्मानंशक्तिरूपकम् शक्तिलिंगंचदेवींचमत्वास्वंशिवरूपकम्
शिवलिंगंनादरूपबिंदुरूपंतुशक्तिकम् उपप्रधानभावेन अन्योन्यासक्तलिंगकम्
पूजयेच्च शिवंशक्तिसशिवोमूलभावनात् शिवभक्ताञ्छिवमत्ररूपकाञ्छिवरूपकान्
षोडशैरुपचारैश्चपूजयेदिष्टमाप्नुयात् येनशुश्रूषणाद्यैश्च शिवभक्तस्य लिंगिनः
आनंदंजनयेद्विद्वाञ्छिवःप्रीततरो भवेत् शिवभक्तान्सपत्नीकान्पत्न्यासहसदैवतत्
पूजयेद्भोजनाद्यैश्चपञ्चवादशवाशतम् धनेदेहेचमंत्रेचभावनायामवंचकः
शिवशक्तिस्वरूपेणनपुनर्जायते भुवि नाभेरधो ब्रह्मभागमाकंठंविष्णुभागकम्
मुखंलिंगमितिप्रोक्तंशिवभक्तशरीरकम् मृतान्दाहादियुक्तान्वादाहादिरहितान्मृतान्
उद्दिश्यपूजयेदादिपितरंशिवमेवहि पूजांकृत्वादिमातुश्चशिवभक्तांश्च पूजयेत्
पितृलोकंसमासाद्यक्रमान्मुक्तोभवेन्मृतः क्रियायुक्तदशभ्यश्चतपोयुक्तोविशिष्यते
तपोयुक्तशतेभ्यश्चजपयुक्तोविशिष्यते जपयुक्तसहस्रेभ्यः शिवज्ञानी विशिष्यते
शिवज्ञानिषुलक्षेषु ध्यानयुक्तो विशिष्यते ध्यानयुक्तेषु कोटिभ्यः समाधिस्थो विशिष्यते
उत्तरोत्तर वै शिष्ट्यात्पूजायामुत्तरोत्तरम् फलंवैशिष्ट्यरूपञ्चदुर्विज्ञेयंमनीषिभिः
तस्माद्वैशिवभक्तस्यमहिमानंवेत्तिकोनरः शिवशक्त्योः पूजनं च शिवभक्तस्य पूजनम्
कुरुतेयोनरोभक्त्यासशिवः शिवमेधते य इमं पठते ऽध्यायमर्थवद्वेदसंमतम्
शिवज्ञानीभवेद्विप्रःशिवेन सहमोदते श्रावयेच्छिवभक्तांश्चविशेषज्ञो मनीश्वराः
शिवप्रसादशिद्धिः स्याच्छिवस्यकृपया बुधाः
बंधमोक्षस्वरूपं हि ब्रूहि सर्वार्थवित्तम बंधमोक्षंतथोपायंवक्ष्ये ऽहंशृणुतादरात्
प्रकृत्याद्यष्टबंधेनबद्धोजीवः स उच्यते प्रकृत्याद्यष्टबंधेननिर्मुक्तोमुक्त उच्यते
प्रकृत्यादिवशीकारोमोक्ष इत्युच्यतेस्वतः बद्धजीवस्तुनिर्मुक्तोमुक्तजीवः स कथ्यते
प्रकृत्यग्रेततोबुद्धिरहंकारोगुणात्मकः पञ्चतन्मात्रमित्येतेप्रकृत्याद्यष्टकंविदुः
प्रकृट्याद्यष्टजोदेहोदेहजंकर्म उच्यते पुनश्चकर्मजोदेहोजन्मकर्मपुनःपुनः
शरीरंत्रिविधंज्ञेयंस्थूलंसूक्ष्मंचकारणम् स्थूलंव्यापारदंप्रोक्तंसूक्ष्ममिंद्रियभोगदम्
कारणंत्वात्मभोगार्थंजीवकर्मानुरूपतः सुखं दुःखं पुण्यपापैः कर्मभिः फलमश्नुते
तस्माद्धिकर्मरज्ज्वा हि बद्धो जीवः पुनः पुनः शरीरत्रयकर्मभ्यां चक्रवद्भ्राम्यते सदा
चक्रभ्रमनिवृत्यर्थं चक्रकर्तारमीडयेत् प्रकृत्यादि महाचक्रं प्रकृतेः परतः शिवः
चक्रकर्तामहेशो हि प्रकृतेः परतोयतः पिबतिवाथवमतिजीवन्बालोजलंयथा
शिवस्तथा प्रकृत्यादि वशीकृत्याधितिष्ठति सर्वंवशीकृतंयस्मात्तस्माच्छिव इति स्मृतः शिव एव हि सर्वज्ञः परिपूर्णश्च निःस्पृहः
सर्वज्ञतातृप्तिरनादिबोधः स्वतंत्रता नित्यमलुप्तशक्तिः अनंतशक्तिश्चमहेश्वरस्य यन्मानसैश्वर्यमवैति वेदः
अतः शिवप्रसादेन प्रकृत्यादिवशंभवेत् शिवप्रसादलाभार्थं शिवमेवप्रपूजयतेत्