पुनश्चपञ्चलक्षेणमंत्रब्राह्मण उच्यते शूद्रश्चैवनमोंतेन पञ्चविंशतिलक्षतः
मंत्रविप्रत्वमापद्य पश्चाच्छुद्धो भवेद्द्विजः नारीवाथ नरो वाथ ब्राह्मणो वान्य एव वा
नमोन्तं वा नमः पूर्वमातुरः सर्वमातुरः सर्वदा जपेत् ततः स्त्रीणांतथैवोह्यगुरुर्निर्दर्शयेत्क्रमात्
साधकः पञ्चलक्षान्ते शिवप्रीत्यर्थमेव हि महाभिषेक नैवेद्यं कृत्वा भक्तांश्च पूजयेत्
पूजया शिवभक्तस्य शिवः प्रीततरो भवेत् शिवस्य शिवभक्तस्य भेदो नास्ति शिवो हि सः
शिवस्वरूपमंत्रस्यधारणाच्छिव एव हि शिवभक्तशरीरे हि शिवेतत्परमोभवेत्
शिवभक्ताः क्रियाः सर्वा वेदसर्वक्रियांविदुः यावद्यावच्छिवंमंत्रंयेनजप्तंभवेत्क्रमात्
तावद्वैशिवसान्निध्यं तस्मिन्देहे न संशयः देवीलिंगंभवेद्रूपं शिवभक्तस्त्रियास्तथा
यावन्मंत्रंजपेद्देव्यास्तावत्सान्निध्यमस्ति हि शिवंसंपूजयेद्धीमान्स्वयंवैशब्दरूपभाक्
स्वयंचैवशिवोभूत्वापरांशक्तिंप्रपूजयेत् शक्तिंबेरंचलिंगं च ह्यालेख्यामाययायजेत्
शिवलिंगं शिवंमत्वास्वात्मानंशक्तिरूपकम् शक्तिलिंगंचदेवींचमत्वास्वंशिवरूपकम्
शिवलिंगंनादरूपबिंदुरूपंतुशक्तिकम् उपप्रधानभावेन अन्योन्यासक्तलिंगकम्
पूजयेच्च शिवंशक्तिसशिवोमूलभावनात् शिवभक्ताञ्छिवमत्ररूपकाञ्छिवरूपकान्
षोडशैरुपचारैश्चपूजयेदिष्टमाप्नुयात् येनशुश्रूषणाद्यैश्च शिवभक्तस्य लिंगिनः
आनंदंजनयेद्विद्वाञ्छिवःप्रीततरो भवेत् शिवभक्तान्सपत्नीकान्पत्न्यासहसदैवतत्
पूजयेद्भोजनाद्यैश्चपञ्चवादशवाशतम् धनेदेहेचमंत्रेचभावनायामवंचकः
शिवशक्तिस्वरूपेणनपुनर्जायते भुवि नाभेरधो ब्रह्मभागमाकंठंविष्णुभागकम्
मुखंलिंगमितिप्रोक्तंशिवभक्तशरीरकम् मृतान्दाहादियुक्तान्वादाहादिरहितान्मृतान्
उद्दिश्यपूजयेदादिपितरंशिवमेवहि पूजांकृत्वादिमातुश्चशिवभक्तांश्च पूजयेत्
पितृलोकंसमासाद्यक्रमान्मुक्तोभवेन्मृतः क्रियायुक्तदशभ्यश्चतपोयुक्तोविशिष्यते
तपोयुक्तशतेभ्यश्चजपयुक्तोविशिष्यते जपयुक्तसहस्रेभ्यः शिवज्ञानी विशिष्यते
शिवज्ञानिषुलक्षेषु ध्यानयुक्तो विशिष्यते ध्यानयुक्तेषु कोटिभ्यः समाधिस्थो विशिष्यते
उत्तरोत्तर वै शिष्ट्यात्पूजायामुत्तरोत्तरम् फलंवैशिष्ट्यरूपञ्चदुर्विज्ञेयंमनीषिभिः
तस्माद्वैशिवभक्तस्यमहिमानंवेत्तिकोनरः शिवशक्त्योः पूजनं च शिवभक्तस्य पूजनम्
कुरुतेयोनरोभक्त्यासशिवः शिवमेधते य इमं पठते ऽध्यायमर्थवद्वेदसंमतम्
शिवज्ञानीभवेद्विप्रःशिवेन सहमोदते श्रावयेच्छिवभक्तांश्चविशेषज्ञो मनीश्वराः
शिवप्रसादशिद्धिः स्याच्छिवस्यकृपया बुधाः
बंधमोक्षस्वरूपं हि ब्रूहि सर्वार्थवित्तम बंधमोक्षंतथोपायंवक्ष्ये ऽहंशृणुतादरात्
प्रकृत्याद्यष्टबंधेनबद्धोजीवः स उच्यते प्रकृत्याद्यष्टबंधेननिर्मुक्तोमुक्त उच्यते
प्रकृत्यादिवशीकारोमोक्ष इत्युच्यतेस्वतः बद्धजीवस्तुनिर्मुक्तोमुक्तजीवः स कथ्यते