त्रयोदशसहस्रं हि रुद्रैकादशकं द्विजाः षट्सहस्रं च कैलासं शतरुद्रं तदर्धकम्
कोटिरुद्रं त्रिगुणितमेकादशसहस्रकम् सहस्रकोटिरुद्राख्यमुदितं ग्रंथसंख्यया
वायवीयं खाब्धिशतं घर्मं रविसहस्रकम् तदेवं लक्षसंख्याकं शैवसंख्याविभेदतः
व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् शैवं तत्र चतुर्थं वै पुराणं सप्तसंहितम्
शिवे संकल्पितं पूर्वं पुराणं ग्रन्थसंख्यया शतकोटिप्रमाणं हि पुरा सृष्टौ सुविस्मृतम्
व्यस्तेष्टादशधा चैव पुराणे द्वापरादिषु चतुर्लक्षेण संक्षिप्ते कृते द्वैपायनादिभिः
प्रोक्तं शिवपुराणं हि चतुर्विंशत्सहस्रकम् श्लोकानां संख्यया सप्तसंहितं ब्रह्मसंमितम्
विद्येश्वराख्या तत्राद्या रौद्री ज्ञेया द्वितीयिका तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका
पञ्चमी चैव मौमाख्या षष्ठी कैलाससंज्ञिका सप्तमी वायवीयाख्या सप्तैवं संहितामताः
ससप्तसंहितं दिव्यं पुराणं शिवसंज्ञकम् वरीवर्ति ब्रह्मतुल्यं सर्वोपरि गतिप्रदम्
एतच्छिवपुराणं हि सप्तसंहितमादरात् परिपूर्णं पठेद्यस्तु स जीवन्मुक्त उच्यते
श्रुतिस्मृतिपुराणेतिहासागमशतानि च एतच्छिवपुराणस्य नार्हंत्यल्पां कलामपि
शैवं पुराणममलं शिवकीर्तितं तद्व्यासेन शैवप्रवणेन न संगृहीतम् संक्षेपतः सकलजीवगुणोपकारे तापत्रयघ्नमतुलं शिवदं सतां हि
विकैतवो धर्म इह प्रगीतो वेदांतविज्ञानमयः प्रधानः अमत्सरांतर्बुधवेद्यवस्तु सत्कॢप्तमत्रैव त्रिवर्गयुक्तम्
शैवं पुराणतिलकं खलु सत्पुराणं वेदांतवेदविलसत्परवस्तुगीतम् यो वै पठेच्च शृणुयात्परमादरेण शंभुप्रियः स हि लभेत्परमां गतिं वै
इत्याकर्ण्य वचः सौतं प्रोचुस्ते परमर्षयः वेदांतसारसर्वस्वं पुराणं श्रावयाद्भुतम्
इति श्रुत्वा मुनीनां स वचनं सुप्रहर्षितः संस्मरञ्छंकरं सूतः प्रोवाच मुनिसत्तमान्
शृण्वंतु ऋषयः सर्वे स्मृत्वा शिवमनामयम् पुराणप्रवणं शैवं पुराणं वेदसारजम्
यत्र गीतं त्रिकं प्रीत्या भक्तिज्ञानविरागकम्
वेदांतवेद्यं सद्वस्तु विशेषेण प्रवर्णितम्
शृण्वंतु ऋषयः सर्वे पुराणं वेदसारजम् पुरा कालेन महता कल्पे ऽतीते पुनःपुनः
अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्टिकर्मणि मुनीनां षट्कुलीनानां ब्रुवतामितरेतरम्
इदं परमिदं नेति विवादः सुमहानभूत् ते ऽभिजग्मुर्विधातारं ब्रह्माणं प्रष्टुमव्ययम्
वाग्भिर्विनयगर्भाभिः सर्वे प्रांजलयो ऽब्रुवन् त्वं हि सर्वजगद्धाता सर्वकारणकारणम्
कः पुमान्सर्वतत्त्वेभ्यः पुराणः परतः परः यतो वाचो निवर्तंते अप्राप्य मनसा सह
यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेंद्रपूर्वकम् सहभूतेंद्रियैः सर्वैः प्रथमं संप्रसूयते
एष देवो महादेवः सर्वज्ञो जगदीश्वरः अयं तु परया भक्त्या दृश्यते ना ऽन्यथा क्वचित्
रुद्रो हरिर्हरश्चैव तथान्ये च सुरेश्वराः भक्त्या परमया तस्य नित्यं दर्शनकांक्षिणः
बहुनात्र किमुक्तेन शिवे भक्त्या विमुच्यते प्रसादाद्देवताभक्तिः प्रसादो भक्तिसंभवः यथेहांकुरतो बीजं बीजतो वा यथांकुरः
तस्मादीशप्रसादार्थं यूयं गत्वा भुवं द्विजाः दीर्घसत्रं समाकृध्वं यूयं वर्षसहस्रकम्