कोपमोहौरौद्रचक्रंभ्रमणंचैश्वरंविदुः शिवचक्रंज्ञानमोहौपञ्चचक्रंविदुर्बुधाः
पुनश्चदशकोट्या हि कारणब्रह्मणः पदम् पुनश्च दशकोट्याहितत्पदैश्वर्यमाप्नुयात्
एवं क्रमेण विष्ण्वादेः पदंलब्ध्वामहौजसः क्रमेणतत्पदैश्वर्यं लब्ध्वाचैवमहात्मनः
शतकोटिमनुं जप्त्वा पञ्चोत्तरमतंद्रितः शिवलोकमवाप्नोतिपञ्चमावरणाद्बहिः
राजसंमंडपंतत्रनंदीसंस्थानमुत्तमम् तपोरूपश्चवृषभस्तत्रैवपरिदृश्यते
सद्योजातस्यतत्स्थानंपञ्चमावरणंपरम् वामदेवस्यचस्थानंचतुर्थावरणंपुनः
अघोरनिलयंपश्चात्तृतीयावरणंपरम् पुरुषस्यैवसांबस्यद्वितीयावरणंशुभम्
ईशानस्यपरस्यैवप्रथमावरणंततः ध्यानधर्मस्य च स्थानंपञ्चमंमंडपंततः
बलिनाथस्यसंस्थानंतत्रपूर्णामृतप्रदम् चतुर्थंमंडपंपश्चाच्चंद्रशेखरमूर्तिमत्
सोमस्कंदस्यचस्थानंतृतीयंमंडपंपरम् द्वितीयंमंडपंनृत्यमंडपंप्राहुरास्तिकाः
प्रथमंमूलमायायाः स्थानंतत्रैवशोभनम् ततः परं गर्भगृहंलिंगस्थानं परं शुभम्
नन्दिसंस्थानतः पश्चान्नविदुः शिववैभवम् नंदीश्वरोबहिस्तिष्ठन्पञ्चाक्षरमुपासते
एवं गुरुक्रमाल्लब्धं नंदीशाच्च मयापुनः ततः परंस्वसंवेद्यं शिवे नैवानुभावितम्
शिवस्यकृपयासाक्षाच्छिवलोकस्यवैभवम् विज्ञातुंशक्यते सर्वैर्नान्यथेत्याहुरास्तिकाः
एवंक्रमेणमुक्ताःस्युर्ब्राह्मणावैजितेंद्रियः अन्येषां च क्रमंवक्ष्ये गदतः शृणुतादरात्
गुरूपदेशाज्जाप्यंवैब्राह्मणानांनमो ऽंतकम् पञ्चाक्षरं पञ्चलक्षमायुष्यंप्रजपेद्विधिः
स्त्रीत्वापनयनार्थंतुपञ्चलक्षंजपेत्पुनः मंत्रेणपुरुषोभूत्वाक्रमान्मुक्तोभवेद्बुधः
क्षत्रियःपञ्चलक्षेणक्षत्त्रत्वमपनेष्यति पुनश्चपञ्चलक्षेणक्षत्त्रियोब्राह्मणोभवेत्
मंत्रसिद्धिर्जपाच्चैवक्रमान्मुक्तोभवैन्नरः वैश्यस्तुपञ्चलक्षेणवैश्यत्वमपनेष्यति
पुनश्चपञ्चलक्षेणमंत्रक्षत्त्रिय उच्यते पुनश्चपञ्चलक्षेण क्षत्त्रत्वमपनेष्यति
पुनश्चपञ्चलक्षेणमंत्रब्राह्मण उच्यते शूद्रश्चैवनमोंतेन पञ्चविंशतिलक्षतः
मंत्रविप्रत्वमापद्य पश्चाच्छुद्धो भवेद्द्विजः नारीवाथ नरो वाथ ब्राह्मणो वान्य एव वा
नमोन्तं वा नमः पूर्वमातुरः सर्वमातुरः सर्वदा जपेत् ततः स्त्रीणांतथैवोह्यगुरुर्निर्दर्शयेत्क्रमात्
साधकः पञ्चलक्षान्ते शिवप्रीत्यर्थमेव हि महाभिषेक नैवेद्यं कृत्वा भक्तांश्च पूजयेत्
पूजया शिवभक्तस्य शिवः प्रीततरो भवेत् शिवस्य शिवभक्तस्य भेदो नास्ति शिवो हि सः
शिवस्वरूपमंत्रस्यधारणाच्छिव एव हि शिवभक्तशरीरे हि शिवेतत्परमोभवेत्
शिवभक्ताः क्रियाः सर्वा वेदसर्वक्रियांविदुः यावद्यावच्छिवंमंत्रंयेनजप्तंभवेत्क्रमात्
तावद्वैशिवसान्निध्यं तस्मिन्देहे न संशयः देवीलिंगंभवेद्रूपं शिवभक्तस्त्रियास्तथा
यावन्मंत्रंजपेद्देव्यास्तावत्सान्निध्यमस्ति हि शिवंसंपूजयेद्धीमान्स्वयंवैशब्दरूपभाक्
स्वयंचैवशिवोभूत्वापरांशक्तिंप्रपूजयेत् शक्तिंबेरंचलिंगं च ह्यालेख्यामाययायजेत्