क्रियादिवृषभा ज्ञेयाः कारणादिषु सर्वदा तं क्रियावृषभं धर्मं कालातीतोधितिष्ठति
ब्रह्मविष्णुमहेशानां स्वस्वायुर्दिनमुच्यते
पुनः कारणसत्यांताः कारणब्रह्मणस्तथा गंधादिभ्यस्तु भूतेभ्यस्तदूर्ध्वं निर्मिताः सदा
सूक्ष्मगंधस्वरूपाहिस्थितालोकाश्चतुर्दश पुनः कारणविष्णोर्वैस्थिता लोकाश्चतुर्दश
पुनःकारणरुद्रस्यलोकाष्टाविंशका मताः पुनश्चकारणेशस्यषट्पञ्चाशत्तदूर्ध्वगाः
ततः परंब्रह्मचर्यलोकाख्यं शिवसंमतम् तत्रैवज्ञानकैलासेपञ्चावरणसंयुते
पञ्चमंडलसंयुक्तंपञ्चब्रह्मकलान्वितम् आदिशक्तिसमायुक्तमादिलिंगंतुतत्रवै
शिवालयमिदंप्रोक्तंशिवस्यपरमात्मनः परशक्त्यासमायुक्तस्तत्रैवपरमेश्वरः
सृष्टिः स्थितिश्चसंहारस्तिरोभावोप्यनुग्रहः पञ्चकृत्यप्रवीणो ऽसौसच्चिदानंदविग्रहः
ध्यानधर्मः सदायस्यसदानुग्रहतत्परः समाध्यासनमासीनः स्वात्मारामोविराजते
तस्यसंदर्शनंसांध्यंकर्मध्यानादिभिः क्रमात् नित्यादिकर्मयजनाच्छिवकर्ममतिर्भवेत्
क्रियादिशिवकर्मभ्यः शिवज्ञानंप्रसाधयेत् तद्दर्शनगताःसर्वेमुक्ता एव नसंशयः
मुक्तिरात्मस्वरूपेणस्वात्मारामत्वमेवहि क्रियातपोजपज्ञानध्यानधर्मेषुसुस्थितः
शिवस्यदर्शनंलब्धास्वात्मारामत्वमेवहि यथारविःस्वकिरणादशुद्धिमपनेष्यति
कृपाविचक्षणःशंभुरज्ञानमपनेष्यति अज्ञानविनिवृत्तौतुशिवज्ञानंप्रवर्तते
शिवज्ञानात्स्वस्वरूपमात्मारामत्वमेष्यति आत्मारामत्वसंसिद्धौकृतकृत्योभवेन्नरः
पुनश्चशतलक्षेणब्रह्मणःपदमाप्नुयात् पुनश्चशतलक्षेणविष्णोःपदमवाप्नुयात्
पुनश्चशतलक्षेणरुद्रस्यपदमाप्नुयात् पुनश्च शतलक्षेण ऐश्वर्यं पदमाप्नुयात्
पुनश्चैवंविधेनैव जपेन सुसमाहितः शिवलोकादिभूतं हि कालचक्रमवाप्नुयात्
कालचक्रंपञ्चचक्रमेकैकेनक्रमोत्तरे सृष्टिमोहौब्रह्मचक्रंभोगमोहौतुवैष्णवम्
कोपमोहौरौद्रचक्रंभ्रमणंचैश्वरंविदुः शिवचक्रंज्ञानमोहौपञ्चचक्रंविदुर्बुधाः
पुनश्चदशकोट्या हि कारणब्रह्मणः पदम् पुनश्च दशकोट्याहितत्पदैश्वर्यमाप्नुयात्
एवं क्रमेण विष्ण्वादेः पदंलब्ध्वामहौजसः क्रमेणतत्पदैश्वर्यं लब्ध्वाचैवमहात्मनः
शतकोटिमनुं जप्त्वा पञ्चोत्तरमतंद्रितः शिवलोकमवाप्नोतिपञ्चमावरणाद्बहिः
राजसंमंडपंतत्रनंदीसंस्थानमुत्तमम् तपोरूपश्चवृषभस्तत्रैवपरिदृश्यते
सद्योजातस्यतत्स्थानंपञ्चमावरणंपरम् वामदेवस्यचस्थानंचतुर्थावरणंपुनः
अघोरनिलयंपश्चात्तृतीयावरणंपरम् पुरुषस्यैवसांबस्यद्वितीयावरणंशुभम्
ईशानस्यपरस्यैवप्रथमावरणंततः ध्यानधर्मस्य च स्थानंपञ्चमंमंडपंततः
बलिनाथस्यसंस्थानंतत्रपूर्णामृतप्रदम् चतुर्थंमंडपंपश्चाच्चंद्रशेखरमूर्तिमत्
सोमस्कंदस्यचस्थानंतृतीयंमंडपंपरम् द्वितीयंमंडपंनृत्यमंडपंप्राहुरास्तिकाः