क्रोधसंगःकृष्णवर्णोमहामहिषवेषवान् तावन्महेश्वरःप्रोक्तस्तिरोधास्तावदेव हि
तदर्वाक्कर्मभोगो हि तदूर्ध्वंज्ञानभोगकम् तदर्वाक्कर्म मायाहिज्ञानमाया तदूर्ध्वकम्
मा लक्ष्मीः कर्मभोगोवैयातिमायेतिकथ्यते मा लक्ष्मीर्ज्ञानभोगोवैयातिमायेतिकथ्यते
तदूर्ध्वंनित्यभोगोहितदर्वाङ्नश्वरंविदुः तदर्वाक्चतिरोधानंतदूर्ध्वंनतिरोधनम्
तदर्वाक्पाशबंधोहितदूर्ध्वंनहिबंधनम् तदर्वाक्परिवर्तंतेकाम्यकर्मानुसारिणः
निष्कामकर्मभोगस्तुतदूर्ध्वंपरिकीर्तितः तदर्वाक्परिवर्तंतेबिंदुपूजापरायणाः
तदूर्ध्वंहिव्रजंत्येवनिष्कामालिंगपूजकाः तदर्वाक्परिवर्तंतंशिवान्यसुरपूजकाः
शिवैकनिरताये च तदूर्ध्वंसंप्रयांतिते तदर्वाग्जीवकोटिःस्यात्तदूर्ध्वंपरकोटिकाः
सांसारिकास्तदर्वाक्च मुक्ताः खलु तदूर्ध्वगाः तदर्वाक्परिवर्तंते प्राकृतद्रव्यपूजकाः
तदूर्ध्वंहिव्रजंत्येतेपौरुषद्रव्यपूजकाः तदर्वाक्छक्तिलिंगं तु शिवलिंगं तदूर्ध्वकम्
तदर्वागावृतं लिंगं तदूर्ध्वं हि निरावृति तदर्वाक्कल्पितं लिंगं तदूर्ध्वं वै न कल्पितम्
तदर्वाक्छक्तिलोका हि शतं वै द्वादशाधिकम्
तदर्वाग्बिंदुरूपं हि नादरूपं तदुत्तरम् तदर्वाक्कर्मलोकस्तु तदूर्ध्वं ज्ञानलोककः
नमस्कारस्तदूर्ध्वंहिमदाहंकारनाशनः जनिजंतिरोधानंनानिषिद्ध्यातते इति
ज्ञानशब्दार्थ एवं हि तिरोधाननिवारणात् तदर्वाक्परिवर्तंतेह्याधिभौतिकपूजकाः
आध्यात्मिकार्चका एव तदूर्ध्वंसंप्रयांतिवै तावद्वैवेदिभागंतन्महालोकात्मलिंगके
प्रकृत्याद्यष्टबंधोपिवेद्यंतेसंप्रतिष्ठतः एवमेतादृशंज्ञेयंसर्वंलौकिकवैदिकम्
अधर्ममहिषारूढंकालचक्रंतरंतिते सत्यादिधर्मयुक्तायेशिवपूजापराश्चये
तदूर्ध्वंवृषभोधर्मोब्रह्मचर्यस्वरूपधृक् सत्यादिपादयुक्तस्तुशिवलोकाग्रतःस्थितः
क्षमाशृङ्गः शमश्रोत्रो वेदध्वनिविभूषितः आस्तिक्यचक्षुर्निश्वासगुरुबुद्धिमना वृषः
क्रियादिवृषभा ज्ञेयाः कारणादिषु सर्वदा तं क्रियावृषभं धर्मं कालातीतोधितिष्ठति
ब्रह्मविष्णुमहेशानां स्वस्वायुर्दिनमुच्यते
पुनः कारणसत्यांताः कारणब्रह्मणस्तथा गंधादिभ्यस्तु भूतेभ्यस्तदूर्ध्वं निर्मिताः सदा
सूक्ष्मगंधस्वरूपाहिस्थितालोकाश्चतुर्दश पुनः कारणविष्णोर्वैस्थिता लोकाश्चतुर्दश
पुनःकारणरुद्रस्यलोकाष्टाविंशका मताः पुनश्चकारणेशस्यषट्पञ्चाशत्तदूर्ध्वगाः
ततः परंब्रह्मचर्यलोकाख्यं शिवसंमतम् तत्रैवज्ञानकैलासेपञ्चावरणसंयुते
पञ्चमंडलसंयुक्तंपञ्चब्रह्मकलान्वितम् आदिशक्तिसमायुक्तमादिलिंगंतुतत्रवै
शिवालयमिदंप्रोक्तंशिवस्यपरमात्मनः परशक्त्यासमायुक्तस्तत्रैवपरमेश्वरः
सृष्टिः स्थितिश्चसंहारस्तिरोभावोप्यनुग्रहः पञ्चकृत्यप्रवीणो ऽसौसच्चिदानंदविग्रहः
ध्यानधर्मः सदायस्यसदानुग्रहतत्परः समाध्यासनमासीनः स्वात्मारामोविराजते