कापिलेनघृतेनैवजुहुयात्स्वयमेवहि कारयेच्छिवभक्तैर्वाप्यष्टोत्तरशतंबुधः
होमान्ते दक्षिणादेयागुरोर्गोमिथुनं तथा ईशानादिस्वरूपांस्तान्गुरुंसांबंविभाव्य च
तेषां पत्सिक्ततोयेनस्वशिरः स्नानमाचरेत् षट्त्रिंशत्कोटितीर्थेषुसद्यःस्नानफलंलभेत्
दशांगमन्नंतेषां वैदद्याद्वैभक्तिपूर्वकम् पराबुद्ध्यागुरोः पत्नीमीशानादिक्रमेण तु
परमान्नेनसंपूज्ययथाविभवविस्तरम् रुद्राक्षवस्त्रपूर्वंचवटकापूपकैर्युतम्
बलिदानंततः कृत्वाभूरिभोजनमाचरेत् ततः संप्रार्थ्यदेवेशंजपंतावत्समापयेत्
पुरश्चरणमेवंतुकृत्वामन्त्रीभवेन्नरः पुनश्चपञ्च लक्षेणसर्वपापक्षयोभवेत्
अतलादिसमारभ्यसत्यलोकावधिक्रमात् पञ्चलक्षजपात्तत्तल्लोकैश्वर्यमवाप्नुयात्
मध्येमृतश्चेद्भोगांतेभूमौतज्जापकोभवेत् पुनश्चपञ्चलक्षेणब्रह्मसामीप्यमाप्नुयात्
पुनश्चपञ्चलक्षेण सारूप्यैश्वर्यमाप्नुयात् आहत्यशतलक्षेणसाक्षाद्ब्रह्मसमोभवेत्
कार्यब्रह्मण एवं हि सायुज्यंप्रतिपद्य वै यथेष्टंभोगमाप्नोतितद्ब्रह्मप्रलयावधि
पुनः कल्पांतरेवृत्ते ब्रह्मपुत्रः सजायते पुनश्चतपसादीप्तःक्रमान्मुक्तोभविष्यति
पृथ्व्यादिकार्यभूतेभ्योलोकावैनिर्मिताःक्रमात् पातालादि च सत्यांतंब्रह्मलोकाश्चतुर्दश
सत्यादूर्ध्वंक्षमांतंवैविष्णुलोकाश्चतुर्दश क्षमलोकेकार्यविष्णुर्वैकुंठेवरपत्तने
कार्यलक्ष्म्यामहाभोगिरक्षांकृत्वा ऽधितिष्ठति तदूर्ध्वगाश्चाशुच्यंतालोकाष्टाविंशतिः स्थिताः
शुचौलोकेतुकैलासेरुद्रोवैभूतहृत्स्थितः षडुत्तराश्चपञ्चाशदहिंसांतास्तदूर्ध्वगाः
अहिंसालोकमास्थायज्ञानकैलासकेपुरे कार्येश्वरस्तिरोभावंसर्वान्कृत्वाधितिष्ठति
तदंतेकालचक्रंहिकालातीतस्ततःपरम् शिवेनाधिष्ठितस्तत्रकालश्चक्रेश्वराह्वयः
माहिषं धर्ममास्थायसर्वान्कालेन युंजति असत्यश्चाशुचिश्चैव हिंसाचैवाथनिर्घृणा
असत्यादिचतुष्पादःसर्वांशः कामरूपधृक् नास्तिक्यलक्ष्मीर्दुःसंगोवेदबाह्यध्वनिःसदा
क्रोधसंगःकृष्णवर्णोमहामहिषवेषवान् तावन्महेश्वरःप्रोक्तस्तिरोधास्तावदेव हि
तदर्वाक्कर्मभोगो हि तदूर्ध्वंज्ञानभोगकम् तदर्वाक्कर्म मायाहिज्ञानमाया तदूर्ध्वकम्
मा लक्ष्मीः कर्मभोगोवैयातिमायेतिकथ्यते मा लक्ष्मीर्ज्ञानभोगोवैयातिमायेतिकथ्यते
तदूर्ध्वंनित्यभोगोहितदर्वाङ्नश्वरंविदुः तदर्वाक्चतिरोधानंतदूर्ध्वंनतिरोधनम्
तदर्वाक्पाशबंधोहितदूर्ध्वंनहिबंधनम् तदर्वाक्परिवर्तंतेकाम्यकर्मानुसारिणः
निष्कामकर्मभोगस्तुतदूर्ध्वंपरिकीर्तितः तदर्वाक्परिवर्तंतेबिंदुपूजापरायणाः
तदूर्ध्वंहिव्रजंत्येवनिष्कामालिंगपूजकाः तदर्वाक्परिवर्तंतंशिवान्यसुरपूजकाः
शिवैकनिरताये च तदूर्ध्वंसंप्रयांतिते तदर्वाग्जीवकोटिःस्यात्तदूर्ध्वंपरकोटिकाः
सांसारिकास्तदर्वाक्च मुक्ताः खलु तदूर्ध्वगाः तदर्वाक्परिवर्तंते प्राकृतद्रव्यपूजकाः
तदूर्ध्वंहिव्रजंत्येतेपौरुषद्रव्यपूजकाः तदर्वाक्छक्तिलिंगं तु शिवलिंगं तदूर्ध्वकम्