प्रवृत्तानां चमिश्राणांस्थूलप्रणवमिष्यते क्रियातपोजपैर्युक्तास्त्रिविधाः शिवयोगिनः
धनादिविभवैश्चैवकराद्यंगैर्नमादिभिः क्रियया पूजयायुक्तःक्रियायोगीति कथ्यते
पूजायुक्तश्चमितभुग्बाह्यंद्रियजयान्वितः परद्रोहादिरहितस्तपोयोगीति कथ्यते
एतैर्युक्तःसदाक्रुद्धःसर्वकामादिवर्जितः सदाजपपरःशांतोजपयोगीति तंविदुः
उपचारैः षोडशभिः पूजया शिवयोगिनाम् सालोक्यादिक्रमेणैवशुद्धोमुक्तिंलभेन्नरः
जपयोगमथोवक्ष्येगदतः शृणुतद्विजाः तपःकर्तुर्जपः प्रोक्तोयज्जमन्परिमार्जते
शिवनामनमःपूर्वंचतुर्थ्यांपञ्चतत्त्वकम् स्थूलप्रणवरूपं हि शिवपञ्चाक्षरं द्विजाः
पञ्चाक्षरजपेनैव सर्वसिद्धिं लभेन्नरः प्रणवेनादिसंयुक्तंसदापञ्चाक्षरंजपेत्
गुरूपदेशंसंगम्यसुखवासेसुभूतले पूर्वपक्षेसमारभ्यकृष्णभूतावधिद्विजाः
माघंभाद्रंविशिष्टंतुसर्वकालोत्तमोत्तमम् एकवारंमिताशीतुवाग्यतोनियतेंद्रियः
स्वस्यराजपित्ःणांचशुश्रूषणंचनित्यशः सहस्रजपमात्रेणभवेच्छुद्धो ऽन्यथा ऋणी
पञ्चाक्षरंपञ्चलक्षंजपेच्छिवमनुस्मरन् पद्मासनस्थंशिवदंगंगाचंद्रकलान्वितम्
वामोरुस्थितशक्त्याचविराजंतंमहागणैः मृगटंकधरंदेवंवरदाभयपाणिकम्
सदानुग्रहकर्तारं सदाशिवमनुस्मरन् संपूज्यमनसा पूर्वंहृदिवासूर्यमंडले
जपेत्पञ्चाक्षरींविद्यांप्राङ्मुखः शुद्धकर्मकृत् प्रातःकृष्णचतुर्दश्यां नित्यकर्मसमाप्यच
मनोरमेशुचौदेशेनियतः शुद्धमानसः पञ्चाक्षरस्यमंत्रस्य सहस्रंद्वादशंजपेत्
वरयेच्चसपत्नीकाञ्छैवान्वैब्राह्मणोत्तमान् एकंगुरुवरंशिष्टंवरयेत्सांबमूर्तिकम्
ईशानंचाथपुरुषमघोरंवाममेव च सद्योजातं चपञ्चैवशिवभक्तान्द्विजोत्तमान्
पूजाद्रव्याणिसंपाद्यशिवपूजांसमारभेत् शिवपूजांचविधिवत्कृत्वाहोमंसमारभेत्
मुखांतं च स्वसूत्रेणकृत्याहोमंसमारभेत् दशैकंवाशतैकंवासहस्रैकमथापिवा
कापिलेनघृतेनैवजुहुयात्स्वयमेवहि कारयेच्छिवभक्तैर्वाप्यष्टोत्तरशतंबुधः
होमान्ते दक्षिणादेयागुरोर्गोमिथुनं तथा ईशानादिस्वरूपांस्तान्गुरुंसांबंविभाव्य च
तेषां पत्सिक्ततोयेनस्वशिरः स्नानमाचरेत् षट्त्रिंशत्कोटितीर्थेषुसद्यःस्नानफलंलभेत्
दशांगमन्नंतेषां वैदद्याद्वैभक्तिपूर्वकम् पराबुद्ध्यागुरोः पत्नीमीशानादिक्रमेण तु
परमान्नेनसंपूज्ययथाविभवविस्तरम् रुद्राक्षवस्त्रपूर्वंचवटकापूपकैर्युतम्
बलिदानंततः कृत्वाभूरिभोजनमाचरेत् ततः संप्रार्थ्यदेवेशंजपंतावत्समापयेत्
पुरश्चरणमेवंतुकृत्वामन्त्रीभवेन्नरः पुनश्चपञ्च लक्षेणसर्वपापक्षयोभवेत्
अतलादिसमारभ्यसत्यलोकावधिक्रमात् पञ्चलक्षजपात्तत्तल्लोकैश्वर्यमवाप्नुयात्
मध्येमृतश्चेद्भोगांतेभूमौतज्जापकोभवेत् पुनश्चपञ्चलक्षेणब्रह्मसामीप्यमाप्नुयात्
पुनश्चपञ्चलक्षेण सारूप्यैश्वर्यमाप्नुयात् आहत्यशतलक्षेणसाक्षाद्ब्रह्मसमोभवेत्