दुष्प्रतिग्रहदुर्भोज्यदुरालापादिसंभवम् पापं सकृत्कीर्तनेन संहिता सा विनाशयेत्
शिवालये विल्ववने संहितां तां पठेत्तु यः स तत्फलमवाप्नोति यद्वाचो ऽपि न गोचरे
संहितां तां पठन् भक्त्या यः श्राद्धे भोजयेद्द्विजान् तस्य ये पितरः सर्वे यांति शंभोः परं पदम्
चतुर्दश्यां निराहारो यः पठेत्संहितां च ताम् बिल्वमूले शिवः साक्षात्सदेवैश्च प्रपूज्यते
अन्यापि संहिता तत्र सर्वकामफलप्रदा उभे विशिष्टे विज्ञेये लीलाविज्ञानपूरिते
तदिदं शैवमाख्यातं पुराणं वेदसंमितम् निर्मितं तच्छिवेनैव प्रथमं ब्रह्मसंमितम्
विद्येशंच तथारौद्रं वैनायकमथौमिकम् मात्रं रुद्रैकादशकं कैलासं शतरुद्रकम्
कोटिरुद्रसहस्राद्यं कोटिरुद्रं तथैव च वायवीयं धर्मसंज्ञं पुराणमिति भेदतः
संहिता द्वादशमिता महापुण्यतरा मता तासां संख्यां ब्रुवे विप्राः शृणुतादरतोखिलम्
विद्येशं दशासाहस्रं रुद्रं वैनायकं तथा औमं मातृपुराणाख्यं प्रत्येकाष्टसहस्रकम्
त्रयोदशसहस्रं हि रुद्रैकादशकं द्विजाः षट्सहस्रं च कैलासं शतरुद्रं तदर्धकम्
कोटिरुद्रं त्रिगुणितमेकादशसहस्रकम् सहस्रकोटिरुद्राख्यमुदितं ग्रंथसंख्यया
वायवीयं खाब्धिशतं घर्मं रविसहस्रकम् तदेवं लक्षसंख्याकं शैवसंख्याविभेदतः
व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् शैवं तत्र चतुर्थं वै पुराणं सप्तसंहितम्
शिवे संकल्पितं पूर्वं पुराणं ग्रन्थसंख्यया शतकोटिप्रमाणं हि पुरा सृष्टौ सुविस्मृतम्
व्यस्तेष्टादशधा चैव पुराणे द्वापरादिषु चतुर्लक्षेण संक्षिप्ते कृते द्वैपायनादिभिः
प्रोक्तं शिवपुराणं हि चतुर्विंशत्सहस्रकम् श्लोकानां संख्यया सप्तसंहितं ब्रह्मसंमितम्
विद्येश्वराख्या तत्राद्या रौद्री ज्ञेया द्वितीयिका तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका
पञ्चमी चैव मौमाख्या षष्ठी कैलाससंज्ञिका सप्तमी वायवीयाख्या सप्तैवं संहितामताः
ससप्तसंहितं दिव्यं पुराणं शिवसंज्ञकम् वरीवर्ति ब्रह्मतुल्यं सर्वोपरि गतिप्रदम्
एतच्छिवपुराणं हि सप्तसंहितमादरात् परिपूर्णं पठेद्यस्तु स जीवन्मुक्त उच्यते
श्रुतिस्मृतिपुराणेतिहासागमशतानि च एतच्छिवपुराणस्य नार्हंत्यल्पां कलामपि
शैवं पुराणममलं शिवकीर्तितं तद्व्यासेन शैवप्रवणेन न संगृहीतम् संक्षेपतः सकलजीवगुणोपकारे तापत्रयघ्नमतुलं शिवदं सतां हि
विकैतवो धर्म इह प्रगीतो वेदांतविज्ञानमयः प्रधानः अमत्सरांतर्बुधवेद्यवस्तु सत्कॢप्तमत्रैव त्रिवर्गयुक्तम्
शैवं पुराणतिलकं खलु सत्पुराणं वेदांतवेदविलसत्परवस्तुगीतम् यो वै पठेच्च शृणुयात्परमादरेण शंभुप्रियः स हि लभेत्परमां गतिं वै
इत्याकर्ण्य वचः सौतं प्रोचुस्ते परमर्षयः वेदांतसारसर्वस्वं पुराणं श्रावयाद्भुतम्
इति श्रुत्वा मुनीनां स वचनं सुप्रहर्षितः संस्मरञ्छंकरं सूतः प्रोवाच मुनिसत्तमान्
शृण्वंतु ऋषयः सर्वे स्मृत्वा शिवमनामयम् पुराणप्रवणं शैवं पुराणं वेदसारजम्
यत्र गीतं त्रिकं प्रीत्या भक्तिज्ञानविरागकम्
वेदांतवेद्यं सद्वस्तु विशेषेण प्रवर्णितम्