तमेव मायारहितं नूतनं परिचक्षते प्रकर्षेण महात्मानं नवं शुद्धस्वरूपकम्
नूतनं वै करोतीति प्रणवं तं विदुर्बुधाः प्रणवंद्विविधंप्रोक्तंसूक्ष्मस्थूलविभेदतः
सूक्ष्ममेकाक्षरं विद्यात्स्थूलं पञ्चाक्षरं विदुः सूक्ष्ममव्यक्तपञ्चार्णं सुव्यक्तार्णं तथेतरत्
जीवन्मुक्तस्य सूक्ष्मं हि सर्वसारं हि तस्यहि मंत्रेणार्थानुसंधानं स्वदेहविलयावधि
स्वदेहेगलितेपूर्णंशिवंप्राप्नोतिनिश्चयः केवलंमंत्रजापीतुयोगंप्राप्नोतिनिश्चयः
षट्त्रिंशत्कोटिजापीतुनिश्चयंयोगमाप्नुयात् सूक्ष्मंचद्विविधंज्ञेयंह्रस्वदीर्घविभेदतः
अकारश्च उकारश्चमकारश्चततःपरम् बिंदुनादयुतं तद्धि शब्दकालकलान्वितम्
दीर्घप्रणवमेवंहियोगिनामेवहृद्गतम् मकारंतंत्रितत्त्वं हि ह्रस्वप्रणव उच्यते
शिवःशक्तिस्तयोरैक्यंमकारंतुत्रिकात्मकम् ह्रस्वमेवंहिजाप्यंस्यात्सर्वपापक्षयैषिणाम्
भूवायुकनकार्णोद्योःशब्दाद्याश्चतथादश आशान्वयेदशपुनः प्रवृत्ता इतिकथ्यते
ह्रस्वमेवप्रवृत्तानांनिवृत्तानांतुदीर्घकम् व्याहृत्यादौचमंत्रादौकामंशब्दकलायुतम्
वेदादौचप्रयोज्यंस्याद्वंदनेसंध्ययोरपि नवकौटिजपाञ्जप्त्वासंशुद्धःपुरुषोभवेत्
पुनश्चनवकोट्यातुपृथिवीजयमाप्नुयात् पुनश्चनवकोट्यातुह्यपांजयमवाप्नुयात्
पुनश्चनवकोट्यातुतेजसांजयमाप्नुयात् पुनश्चनवकोट्या तु वायोर्जयमवाप्नुयात् आकाशजयमाप्नोति नवकोटिजपेन वै
गंधादीनांक्रमेणैवनवकोटिजपेणवै अहंकारस्य च पुनर्नव कोटिजपेन वै
सहस्रमंत्रजप्तेन नित्यशुद्धो भवेत्पुमान् ततः परंस्वसिद्ध्यर्थंजपोभवतिहिद्विजाः
एवमष्टोत्तरशतकोटिजप्तेनवैपुनः प्रणवेनप्रबुद्धस्तुशुद्धयोगमवाप्नुयात्
शुद्धयोगेनसंयुक्तोजीवन्मुक्तोनसंशयः सदाजपन्सदाध्यायञ्छिवं प्रणवरूपिणम्
समाधिस्थोमहायोगीशिव एव नसंशयः ऋषिच्छंदोदेवतादिन्यस्यदेहेपुनर्जपेत्
प्रणवं मातृकायुक्तंदेहेत्यस्य ऋषिर्भवेत् दशमातृषडध्वादि सर्वंन्यासफलं लभेत्
प्रवृत्तानां चमिश्राणांस्थूलप्रणवमिष्यते क्रियातपोजपैर्युक्तास्त्रिविधाः शिवयोगिनः
धनादिविभवैश्चैवकराद्यंगैर्नमादिभिः क्रियया पूजयायुक्तःक्रियायोगीति कथ्यते
पूजायुक्तश्चमितभुग्बाह्यंद्रियजयान्वितः परद्रोहादिरहितस्तपोयोगीति कथ्यते
एतैर्युक्तःसदाक्रुद्धःसर्वकामादिवर्जितः सदाजपपरःशांतोजपयोगीति तंविदुः
उपचारैः षोडशभिः पूजया शिवयोगिनाम् सालोक्यादिक्रमेणैवशुद्धोमुक्तिंलभेन्नरः
जपयोगमथोवक्ष्येगदतः शृणुतद्विजाः तपःकर्तुर्जपः प्रोक्तोयज्जमन्परिमार्जते
शिवनामनमःपूर्वंचतुर्थ्यांपञ्चतत्त्वकम् स्थूलप्रणवरूपं हि शिवपञ्चाक्षरं द्विजाः
पञ्चाक्षरजपेनैव सर्वसिद्धिं लभेन्नरः प्रणवेनादिसंयुक्तंसदापञ्चाक्षरंजपेत्
गुरूपदेशंसंगम्यसुखवासेसुभूतले पूर्वपक्षेसमारभ्यकृष्णभूतावधिद्विजाः
माघंभाद्रंविशिष्टंतुसर्वकालोत्तमोत्तमम् एकवारंमिताशीतुवाग्यतोनियतेंद्रियः