भगेनसहितंलिंगं भगंलिंगेनसंयुतम् इहामुत्रचभोगार्थंनित्यभोगार्थमेव च
भगवंतंमहादेवं शिवलिंगंप्रपूजयेत् लोकप्रसवितासूर्यस्तच्चिह्नं प्रसवाद्भवेत्
लिंगार्थगमकंचिह्नंलिंगमित्यभिधीयते
लिंगमर्थंहिपुरुषं शिवंगमयतीत्यदः शिवशक्त्योश्चचिह्नस्यमेलनंलिंगमुच्यते
स्वचिह्नपूजनात्प्रीतश्चिह्नकार्यं न वीयते चिह्नकार्यंतुजन्मादिजन्माद्यंविनिवर्तते
प्राकृतैः पुरुषैश्चापिबाह्याभ्यंतरसंभवैः षोडशैरुपचारैश्च शिवलिंगंप्रपूजयेत्
एवमादित्यवारेहिपूजाजन्मनिवर्तिका आदिवारेमहालिंगंप्रणवेनैवपूजयेत्
आदिवारे पञ्चगव्यैरभिषेको विशिष्यते गोमयंगोजलंक्षीरंदध्याज्यं पञ्चगव्यकम्
क्षीराद्यंचपृथक्च्चैवमधुनाचेक्षुसारकैः गव्यक्षीरान्ननैवेद्यंप्रणवेनैवकारयेत्
प्रणवंध्वनिलिंगंतुनादलिंगंस्वयंभुवः बिंदुलिंगं तु यंत्रंस्यान्मकारंतुप्रतिष्ठितम्
उकारंचरलिंगंस्यादकारंगुरुविग्रहम् षड्लिंगपूजयानित्यंजीवन्मुक्तोनसंशयः
शिवस्यभक्त्यापूजा हि जन्ममुक्तिकरीनृणाम् रुद्राक्षधारणात्पादमर्धं वैभूतिधारणात्
त्रिपादं मंत्रजाप्याच्च पूजया पूर्णभक्तिमान् शिवलिंगं च भक्तं च पूज्य मोक्षं लभेन्नरः
य इमं पठते ऽध्यायं शृणुयाद्वा समाहितः तस्यैव शिवभक्तिश्च वर्धतेसुदृढा द्विजाः
प्रणवस्यचमाहात्म्यंषड्लिंगस्यमहामुने शिवभक्तस्यपूजांचक्रमशोब्रूहिनःप्रभो
तपोधनैर्भवद्भिश्च सम्यक्प्रश्नस्त्वयं कृतः अस्योत्तरंमहादेवोजानातिस्मनचापरः
अथापिवक्ष्येतमहंशिवस्यकृपयैवहि शिवो ऽस्माकंचयुष्माकंरक्षांगृह्णातुभूरिशः
प्रोहिप्रकृतिजातस्यसंसारस्यमहोदधेः नवं नावांतरमिति प्रणवं वै विदुर्बुधाः
प्रःप्रपञ्चोननास्तिवो युष्माकंप्रणवंविदुः प्रकर्षेणनयेद्यस्मान्मोक्षंवः प्रणवं विदुः
स्वजापकानांयोगिनांस्वमंत्रपूजकस्यच सर्वकर्मक्षयंकृत्वादिव्यज्ञानंतुनूतनम्
तमेव मायारहितं नूतनं परिचक्षते प्रकर्षेण महात्मानं नवं शुद्धस्वरूपकम्
नूतनं वै करोतीति प्रणवं तं विदुर्बुधाः प्रणवंद्विविधंप्रोक्तंसूक्ष्मस्थूलविभेदतः
सूक्ष्ममेकाक्षरं विद्यात्स्थूलं पञ्चाक्षरं विदुः सूक्ष्ममव्यक्तपञ्चार्णं सुव्यक्तार्णं तथेतरत्
जीवन्मुक्तस्य सूक्ष्मं हि सर्वसारं हि तस्यहि मंत्रेणार्थानुसंधानं स्वदेहविलयावधि
स्वदेहेगलितेपूर्णंशिवंप्राप्नोतिनिश्चयः केवलंमंत्रजापीतुयोगंप्राप्नोतिनिश्चयः
षट्त्रिंशत्कोटिजापीतुनिश्चयंयोगमाप्नुयात् सूक्ष्मंचद्विविधंज्ञेयंह्रस्वदीर्घविभेदतः
अकारश्च उकारश्चमकारश्चततःपरम् बिंदुनादयुतं तद्धि शब्दकालकलान्वितम्
दीर्घप्रणवमेवंहियोगिनामेवहृद्गतम् मकारंतंत्रितत्त्वं हि ह्रस्वप्रणव उच्यते
शिवःशक्तिस्तयोरैक्यंमकारंतुत्रिकात्मकम् ह्रस्वमेवंहिजाप्यंस्यात्सर्वपापक्षयैषिणाम्
भूवायुकनकार्णोद्योःशब्दाद्याश्चतथादश आशान्वयेदशपुनः प्रवृत्ता इतिकथ्यते