नारिकेलफलादीनां तथा गणनया सह द्वादशक्रमुकैर्युक्तं षट्त्रिंशत्पत्रकैर्युतम्
कर्पूरखुरचूर्णेन पञ्चसौगंधिकैर्युतम् तांबूलयुक्तं तु यदा महानैवेद्यलक्षणम्
महानैवेद्यमेतद्वै देवतार्पणपूर्वकम् वर्णानुक्रमपूर्वेण तद्भक्तेभ्यः प्रदापयेत्
एवं चौदननैवेद्याद्भूमौ राष्ट्रपतिर्भवेत् महानैवेद्यदानेन नरः स्वर्गमवाप्नुयात्
महानैवेद्यदानेन सहस्रेण द्विजर्षभाः सत्यलोके च तल्लोके पूर्णमायुरवाप्नुयात्
सहस्राणां च त्रिंशत्या महानैवेद्यदानतः तदूर्ध्वलोकमाप्यैव न पुनर्जन्मभाग्भवेत्
सहस्राणां च षट्त्रिंशज्जन्म नैवेद्यमीरितम् तावन्नैवेद्यदानं तु महापूर्णं तदुच्यते
महापूर्णस्य नैवेद्यं जन्मनैवेद्यमिष्यते जन्मनैवेद्यदानेन पुनर्जन्म न विद्यते
ऊर्जे मासि दिने पुण्ये जन्म नैवेद्यमाचरेत् संक्रांतिपातजन्मर्क्षपौर्णमास्यादिसंयुते
अब्दजन्मदिने कुर्याज्जन्मनैवेद्यमुत्तमम् मासांतरेषु जन्मर्क्षपूर्णयोगदिनेपि च
मेलनेचशनेर्वापितावत्साहस्रमाचरेत् जन्मनैवेद्यदानेनजन्मार्पणफलंलभेत्
जन्मार्पणाच्छिवः प्रीतिःस्वसायुज्यंददातिहि इदंतज्जन्मनैवेद्यंशिवस्यैवप्रदापयेत्
योनिलिंगस्वरूपेणशिवोजन्मानिरूपकः तस्माज्जन्मनिवृत्त्यर्थंजन्म पूजा शिवस्य हि
बिंदुनादात्मकंसर्वंजगत्स्थावरजंगमम् बिंदुःशक्तिःशिवोनादःशिवशक्त्यात्मकंजगत्
नादाधारमिदंबिंदुर्बिंद्वाधारमिदं जगत् जगदाधारभूतौहिबिंदुनादौ व्यवस्थितौ
विन्दुनादयुतंसर्वंसकलीकरणंभवेत् सकलीकरणाज्जन्मजगत्प्राप्नोत्यसंशयः
बिंदुनादात्मकंलिंगंजगत्कारणमुच्यते बिंदुर्देर्वीशिवोनादःशिवलिंगंतुकथ्यते
तस्माज्जन्मनिवृत्त्यर्थंशिवलिंगंप्रपूजयेत् मातादेवीबिंदुरूपानादरूपः शिवः पिता
पूजिताभ्यांपितृभ्यांतुपरमानंद एव हि परमानंदलाभार्थंशिवलिंगंप्रपूजयेत्
सादेवीजगतांमातासशिवोजगतः पिता पित्रोः शुश्रूषकेनित्यंकृपाधिक्यं हि वर्धते
कृपयांतर्गतैश्वर्यंपूजकस्यददातिहि तस्मादंतर्गतानंदलाभार्थंमुनिपुंगवाः
पितृमातृस्वरूपेणशिवलिंगंप्रपूजयेत् भर्गः पुरुषरूपो हि भर्गाप्रकृतिरुच्यते
अव्यक्तांतरधिष्ठानं गर्भः पुरुष उच्यते सुव्यक्तांतरधिष्ठानंगर्भः प्रकृतिरुच्यते
पुरुषत्वादिगर्भोहिगर्भवाञ्जनकोयतः पुरुषात्प्रकृतोयुक्तंप्रथमंजन्मकथ्यते
प्रकृतेर्व्यक्ततांयातंद्वितीयं जन्म कथ्यते जन्मजंतुर्मृत्युजन्म पुरुषात्प्रतिपद्यते
अन्यतोभाव्यते ऽवश्यंमाययाजन्मकथ्यते जीर्यतेजन्मकालाद्यत्तस्माज्जीव इति स्मृतः
जन्मतेतन्यते पाशैर्जीवशब्दार्थ एव हि जन्मपाशनिवृत्त्यर्थंजन्मलिंगंप्रपूजयेत्
भं वृद्धिं गच्छतीत्यर्थाद्भगःप्रकृतिरुच्यते प्राकृतैः शब्दमात्राद्यैः प्राकृतेंद्रियभोजनात्
भगस्येदं भोगमिति शब्दार्थो मुख्यतः श्रुतः मुख्यो भगस्तु प्रकृतिर्भगवाञ्छिव उच्यते
भगवान्भोगदाताहिना ऽन्योभोगप्रदायकः भगस्वामीचभगवान्भर्ग इत्युच्यतेबुधैः