कृत्तिकासौम्यवारेषु विष्णोर्वै यजनं नृणाम् दध्योदनस्य दानं च सत्संतानकरं भवेत्
कृतिकागुरुवारेषु ब्रह्मणो यजनाद्धनैः मधुस्वर्णाज्यदानेन भोगवृद्धिर्भवेन्नृणाम्
गंधपुष्पान्नदानेन भोग्यवृद्धिर्भवेन्नृणाम्
वंध्या सुपुत्रं लभते स्वर्णरौप्यादिदानतः कृत्तिकाशनिवारेषु दिक्पालानां च वंदनम्
दिग्गजानां च नागानां सेतुपानां च पूजनम् त्र्यंबकस्य च रुद्रस्य विष्णोः पापहरस्य च
ज्ञानदं ब्रह्मणश्चैव धन्वंतर्यश्विनोस्तथा रोगापमृत्युहरणं तत्कालव्याधिशांतिदम्
लवणायसतैलानां माषादीनां च दानतः त्रिकटुफलगंधानां जलादीनां च दानतः
द्रवाणां कठिनानां च प्रस्थेन पलमानतः स्वर्गप्राप्तिर्धनुर्मासे ह्युषःकाले च पूजनम्
शिवादीनां च सर्वेषां क्रमाद्वै सर्वसिद्धये शाल्यन्नस्य हविष्यस्य नैवेद्यं शस्तमुच्यते
विविधान्नस्य नैवेद्यं धनुर्मासे विशिष्यते मार्गशीर्षे ऽन्नदस्यैव सर्वमिष्टफलं भवेत्
पापक्षयं चेष्टसिद्धिं चारोग्यं धर्ममेव च सम्यग्वेदपरिज्ञानं सदनुष्ठानमेव च
इहामुत्र महाभोगानंते योगं च शाश्वतम् वेदांतज्ञानसिद्धिं च मार्गशीर्षान्नदो लभेत्
मार्गशीर्षे ह्युषःकाले दिनत्रयमथापि वा यजेद्देवान्भोगकामो नाधनुर्मासिको भवेत्
यावत्संगवकालं तु धनुर्मासो विधीयते धनुर्मासे निराहारो मासमात्रं जितेंद्रियः
आमध्याह्नजपेद्विप्रो गायत्रीं वेदमातरम् पञ्चाक्षरादिकान्मंत्रान्पश्चादासप्तिकं जपेत्
ज्ञानं लब्ध्वा च देहांते विप्रो मुक्तिमवाप्नुयात् अन्येषां नरनारीणां त्रिःस्नानेन जपेन च
सदा पञ्चाक्षरस्यैव विशुद्धं ज्ञानमाप्यते इष्टमन्त्रान्सदाजप्त्वा महापापक्षयं लभेत्
धनुर्मासे विशेषेण महानैवेद्यमाचरेत् शालितंडुलभारेण मरीचप्रस्थकेन च
गणनाद्द्वादशं सर्वं मध्वाज्यकुडवेन हि द्रोणयुक्तेन मुद्गेन द्वादशव्यंजनेन च
घृतपक्वैरपूपैश्च मोदकैः शालिकादिभिः द्वादशैश्च दधिक्षीरैर्द्वादशप्रस्थकेन च
नारिकेलफलादीनां तथा गणनया सह द्वादशक्रमुकैर्युक्तं षट्त्रिंशत्पत्रकैर्युतम्
कर्पूरखुरचूर्णेन पञ्चसौगंधिकैर्युतम् तांबूलयुक्तं तु यदा महानैवेद्यलक्षणम्
महानैवेद्यमेतद्वै देवतार्पणपूर्वकम् वर्णानुक्रमपूर्वेण तद्भक्तेभ्यः प्रदापयेत्
एवं चौदननैवेद्याद्भूमौ राष्ट्रपतिर्भवेत् महानैवेद्यदानेन नरः स्वर्गमवाप्नुयात्
महानैवेद्यदानेन सहस्रेण द्विजर्षभाः सत्यलोके च तल्लोके पूर्णमायुरवाप्नुयात्
सहस्राणां च त्रिंशत्या महानैवेद्यदानतः तदूर्ध्वलोकमाप्यैव न पुनर्जन्मभाग्भवेत्
सहस्राणां च षट्त्रिंशज्जन्म नैवेद्यमीरितम् तावन्नैवेद्यदानं तु महापूर्णं तदुच्यते
महापूर्णस्य नैवेद्यं जन्मनैवेद्यमिष्यते जन्मनैवेद्यदानेन पुनर्जन्म न विद्यते
ऊर्जे मासि दिने पुण्ये जन्म नैवेद्यमाचरेत् संक्रांतिपातजन्मर्क्षपौर्णमास्यादिसंयुते
अब्दजन्मदिने कुर्याज्जन्मनैवेद्यमुत्तमम् मासांतरेषु जन्मर्क्षपूर्णयोगदिनेपि च