मार्गशीर्षार्द्रकायां वा षोडशैरुपचारकैः तत्तन्मूर्तिशिवं पूज्य तस्य वै पाददर्शनम्
शिवस्य यजनं ज्ञेयं भोगमोक्षप्रदं नृणाम् वारादिदेवयजनं कार्तिके हि विशिष्यते
कार्तिके मासि संप्राप्ते सर्वान्देवान्यजेद्बुधः दानेन तपसा होमैर्जपेन नियमेन च
षोडशैरुपचारैश्च प्रतिमा विप्रमंत्रकैः ब्राह्मणानां भोजनेन निष्कामार्तिकरो भवेत्
कार्तिके देवयजनं सर्वभोगप्रदं भवेत् व्याधीनां हरणं चैव भवेद्भूतग्रहक्षयः
कार्तिकादित्यवारेषु नृणामादित्यपूजनात् तैलकार्पासदानात्तु भवेत्कुष्ठादिसंक्षयः
हरीतकीमरीचीनां वस्त्रक्षीरादिदानतः ब्रह्मप्रतिष्ठया चैव क्षयरोगक्षयो भवेत्
दीपसर्षपदानाच्च अपस्मारक्षयो भवेत् कृत्तिकासोमवारेषु शिवस्य यजनं नृणाम्
महादारिद्र्यशमनं सर्वसंपत्करं भवेत् गृहक्षेत्रादिदानाच्च गृहोपकरणादिना
कृत्तिकाभौमवारेषु स्कंदस्य यजनान्नृणाम् दीपघंटादिदानाद्वै वाक्सिद्धिरचिराद्भवेत्
कृत्तिकासौम्यवारेषु विष्णोर्वै यजनं नृणाम् दध्योदनस्य दानं च सत्संतानकरं भवेत्
कृतिकागुरुवारेषु ब्रह्मणो यजनाद्धनैः मधुस्वर्णाज्यदानेन भोगवृद्धिर्भवेन्नृणाम्
गंधपुष्पान्नदानेन भोग्यवृद्धिर्भवेन्नृणाम्
वंध्या सुपुत्रं लभते स्वर्णरौप्यादिदानतः कृत्तिकाशनिवारेषु दिक्पालानां च वंदनम्
दिग्गजानां च नागानां सेतुपानां च पूजनम् त्र्यंबकस्य च रुद्रस्य विष्णोः पापहरस्य च
ज्ञानदं ब्रह्मणश्चैव धन्वंतर्यश्विनोस्तथा रोगापमृत्युहरणं तत्कालव्याधिशांतिदम्
लवणायसतैलानां माषादीनां च दानतः त्रिकटुफलगंधानां जलादीनां च दानतः
द्रवाणां कठिनानां च प्रस्थेन पलमानतः स्वर्गप्राप्तिर्धनुर्मासे ह्युषःकाले च पूजनम्
शिवादीनां च सर्वेषां क्रमाद्वै सर्वसिद्धये शाल्यन्नस्य हविष्यस्य नैवेद्यं शस्तमुच्यते
विविधान्नस्य नैवेद्यं धनुर्मासे विशिष्यते मार्गशीर्षे ऽन्नदस्यैव सर्वमिष्टफलं भवेत्
पापक्षयं चेष्टसिद्धिं चारोग्यं धर्ममेव च सम्यग्वेदपरिज्ञानं सदनुष्ठानमेव च
इहामुत्र महाभोगानंते योगं च शाश्वतम् वेदांतज्ञानसिद्धिं च मार्गशीर्षान्नदो लभेत्
मार्गशीर्षे ह्युषःकाले दिनत्रयमथापि वा यजेद्देवान्भोगकामो नाधनुर्मासिको भवेत्
यावत्संगवकालं तु धनुर्मासो विधीयते धनुर्मासे निराहारो मासमात्रं जितेंद्रियः
आमध्याह्नजपेद्विप्रो गायत्रीं वेदमातरम् पञ्चाक्षरादिकान्मंत्रान्पश्चादासप्तिकं जपेत्
ज्ञानं लब्ध्वा च देहांते विप्रो मुक्तिमवाप्नुयात् अन्येषां नरनारीणां त्रिःस्नानेन जपेन च
सदा पञ्चाक्षरस्यैव विशुद्धं ज्ञानमाप्यते इष्टमन्त्रान्सदाजप्त्वा महापापक्षयं लभेत्
धनुर्मासे विशेषेण महानैवेद्यमाचरेत् शालितंडुलभारेण मरीचप्रस्थकेन च
गणनाद्द्वादशं सर्वं मध्वाज्यकुडवेन हि द्रोणयुक्तेन मुद्गेन द्वादशव्यंजनेन च
घृतपक्वैरपूपैश्च मोदकैः शालिकादिभिः द्वादशैश्च दधिक्षीरैर्द्वादशप्रस्थकेन च