वर्षभोगप्रदा ज्ञेया कृता वै सिंहभाद्रके श्रवण्यादित्यवारे च सप्तम्यां हस्तभे दिने
माघशुक्ले च सप्तम्यामादित्ययजनं चरेत् ज्येष्ठभाद्रकसौम्ये च द्वादश्यां श्रवर्णक्षके
द्वादश्यां विष्णुयजनमिष्टंसंपत्करं विदुः श्रावणे विष्णुयजनमिष्टारोग्यप्रदं भवेत्
गवादीन्द्वादशानर्थान्सांगान्दत्वा तु यत्फलम् तत्फलं समवाप्नोति द्वादश्यां विष्णुतर्पणात्
द्वादश्यां द्वादशान्विप्रान्विष्णोर्द्वादशनामतः षोडशैरुपचारैश्च यजेत्तत्प्रीतिमाप्नुयात्
एवं च सर्वदेवानां तत्तद्द्वादशनामकैः द्वादशब्रह्मयजनं तत्तत्प्रीतिकरं भवेत्
कर्कटे सोमवारे च नवम्यां मृगशीर्षके अंबां यजेद्भूतिकामः सर्वभोगफलप्रदाम्
आश्वयुक्छुक्लनवमी सर्वाभीष्टफलप्रदा आदिवारे चतुर्दश्यां कृष्णपक्षे विशेषतः
आर्द्रायां च महार्द्रायां शिवपूजा विशिष्यते माघकृष्णचतुर्दश्यां सर्वाभीष्टफलप्रदा
आयुष्करी मृत्युहरा सर्वसिद्धिकरी नृणाम् ज्येष्ठमासे महार्द्रायां चतुर्दशीदिनेपि च
मार्गशीर्षार्द्रकायां वा षोडशैरुपचारकैः तत्तन्मूर्तिशिवं पूज्य तस्य वै पाददर्शनम्
शिवस्य यजनं ज्ञेयं भोगमोक्षप्रदं नृणाम् वारादिदेवयजनं कार्तिके हि विशिष्यते
कार्तिके मासि संप्राप्ते सर्वान्देवान्यजेद्बुधः दानेन तपसा होमैर्जपेन नियमेन च
षोडशैरुपचारैश्च प्रतिमा विप्रमंत्रकैः ब्राह्मणानां भोजनेन निष्कामार्तिकरो भवेत्
कार्तिके देवयजनं सर्वभोगप्रदं भवेत् व्याधीनां हरणं चैव भवेद्भूतग्रहक्षयः
कार्तिकादित्यवारेषु नृणामादित्यपूजनात् तैलकार्पासदानात्तु भवेत्कुष्ठादिसंक्षयः
हरीतकीमरीचीनां वस्त्रक्षीरादिदानतः ब्रह्मप्रतिष्ठया चैव क्षयरोगक्षयो भवेत्
दीपसर्षपदानाच्च अपस्मारक्षयो भवेत् कृत्तिकासोमवारेषु शिवस्य यजनं नृणाम्
महादारिद्र्यशमनं सर्वसंपत्करं भवेत् गृहक्षेत्रादिदानाच्च गृहोपकरणादिना
कृत्तिकाभौमवारेषु स्कंदस्य यजनान्नृणाम् दीपघंटादिदानाद्वै वाक्सिद्धिरचिराद्भवेत्
कृत्तिकासौम्यवारेषु विष्णोर्वै यजनं नृणाम् दध्योदनस्य दानं च सत्संतानकरं भवेत्
कृतिकागुरुवारेषु ब्रह्मणो यजनाद्धनैः मधुस्वर्णाज्यदानेन भोगवृद्धिर्भवेन्नृणाम्
गंधपुष्पान्नदानेन भोग्यवृद्धिर्भवेन्नृणाम्
वंध्या सुपुत्रं लभते स्वर्णरौप्यादिदानतः कृत्तिकाशनिवारेषु दिक्पालानां च वंदनम्
दिग्गजानां च नागानां सेतुपानां च पूजनम् त्र्यंबकस्य च रुद्रस्य विष्णोः पापहरस्य च
ज्ञानदं ब्रह्मणश्चैव धन्वंतर्यश्विनोस्तथा रोगापमृत्युहरणं तत्कालव्याधिशांतिदम्
लवणायसतैलानां माषादीनां च दानतः त्रिकटुफलगंधानां जलादीनां च दानतः
द्रवाणां कठिनानां च प्रस्थेन पलमानतः स्वर्गप्राप्तिर्धनुर्मासे ह्युषःकाले च पूजनम्
शिवादीनां च सर्वेषां क्रमाद्वै सर्वसिद्धये शाल्यन्नस्य हविष्यस्य नैवेद्यं शस्तमुच्यते
विविधान्नस्य नैवेद्यं धनुर्मासे विशिष्यते मार्गशीर्षे ऽन्नदस्यैव सर्वमिष्टफलं भवेत्