वारपूजांशिवादीनामात्मशुद्धिप्रदां विदुः तीथिनक्षत्रयोगानामाधारं सार्वकामिकम्
तथा बृद्धिक्षयाभावात्पूर्णब्रह्मात्मकं विदुः उदयादुदयं वारो ब्रह्मप्रभृति कर्मणाम्
तिथ्यादौ देवपूजा हि पूर्णभोगप्रदा नृणाम् पूर्वभागः पित्ःणां तु निशि युक्तः प्रशस्यते
परभागस्तु देवानां दिवा युक्तः प्रशास्यते उदयव्यापिनी ग्राह्या मध्याह्ने यदि सा तिथिः
देवकार्ये तथा ग्राह्यास्थिति ऋक्षादिकाः शुभाः सम्यग्विचार्य वारादीन्कुर्यात्पूजाजपादिकम्
पूजार्यते ह्यनेनेति वेदेष्वर्थस्य योजना पूर्णभोगफलसिद्धिश्च जायते तेन कर्मणा
मनोभावांस्तथा ज्ञानमिष्टभोगार्थयोजनात् पूजाशब्दर्थ एवं हि विश्रुतो लोकवेदयोः
नित्यनैमित्तिकं कालात्सद्यः काम्ये स्वनुष्ठिते नित्यं मासं च पक्षं च वर्षं चैव यथाक्रमम्
तत्तत्कर्मफलप्राप्तिस्तादृक्पापक्षयः क्रमात् महागणपतेः पूजा चतुर्थ्यां कृष्णपक्षके
पक्षपापक्षयकरी पक्षभोगफलप्रदा चैत्रे चतुर्थ्यां पूजा च कृता मासफलप्रदा
वर्षभोगप्रदा ज्ञेया कृता वै सिंहभाद्रके श्रवण्यादित्यवारे च सप्तम्यां हस्तभे दिने
माघशुक्ले च सप्तम्यामादित्ययजनं चरेत् ज्येष्ठभाद्रकसौम्ये च द्वादश्यां श्रवर्णक्षके
द्वादश्यां विष्णुयजनमिष्टंसंपत्करं विदुः श्रावणे विष्णुयजनमिष्टारोग्यप्रदं भवेत्
गवादीन्द्वादशानर्थान्सांगान्दत्वा तु यत्फलम् तत्फलं समवाप्नोति द्वादश्यां विष्णुतर्पणात्
द्वादश्यां द्वादशान्विप्रान्विष्णोर्द्वादशनामतः षोडशैरुपचारैश्च यजेत्तत्प्रीतिमाप्नुयात्
एवं च सर्वदेवानां तत्तद्द्वादशनामकैः द्वादशब्रह्मयजनं तत्तत्प्रीतिकरं भवेत्
कर्कटे सोमवारे च नवम्यां मृगशीर्षके अंबां यजेद्भूतिकामः सर्वभोगफलप्रदाम्
आश्वयुक्छुक्लनवमी सर्वाभीष्टफलप्रदा आदिवारे चतुर्दश्यां कृष्णपक्षे विशेषतः
आर्द्रायां च महार्द्रायां शिवपूजा विशिष्यते माघकृष्णचतुर्दश्यां सर्वाभीष्टफलप्रदा
आयुष्करी मृत्युहरा सर्वसिद्धिकरी नृणाम् ज्येष्ठमासे महार्द्रायां चतुर्दशीदिनेपि च
मार्गशीर्षार्द्रकायां वा षोडशैरुपचारकैः तत्तन्मूर्तिशिवं पूज्य तस्य वै पाददर्शनम्
शिवस्य यजनं ज्ञेयं भोगमोक्षप्रदं नृणाम् वारादिदेवयजनं कार्तिके हि विशिष्यते
कार्तिके मासि संप्राप्ते सर्वान्देवान्यजेद्बुधः दानेन तपसा होमैर्जपेन नियमेन च
षोडशैरुपचारैश्च प्रतिमा विप्रमंत्रकैः ब्राह्मणानां भोजनेन निष्कामार्तिकरो भवेत्
कार्तिके देवयजनं सर्वभोगप्रदं भवेत् व्याधीनां हरणं चैव भवेद्भूतग्रहक्षयः
कार्तिकादित्यवारेषु नृणामादित्यपूजनात् तैलकार्पासदानात्तु भवेत्कुष्ठादिसंक्षयः
हरीतकीमरीचीनां वस्त्रक्षीरादिदानतः ब्रह्मप्रतिष्ठया चैव क्षयरोगक्षयो भवेत्
दीपसर्षपदानाच्च अपस्मारक्षयो भवेत् कृत्तिकासोमवारेषु शिवस्य यजनं नृणाम्
महादारिद्र्यशमनं सर्वसंपत्करं भवेत् गृहक्षेत्रादिदानाच्च गृहोपकरणादिना
कृत्तिकाभौमवारेषु स्कंदस्य यजनान्नृणाम् दीपघंटादिदानाद्वै वाक्सिद्धिरचिराद्भवेत्