अन्नादिभोज्यं वस्त्रादिसर्वमुत्पद्यते यतः ततो मृदादिप्रतिमापूजाभीष्टप्रदा भुवि
पुरुषाणां च नारीणामधिकारोत्र निश्चितम् नद्यां तडागे कूपे वा जलांतर्मृदमाहरेत्
संशोध्य गंधचूर्णेन पेषयित्वा सुमंडपे हस्तेन प्रतिमां कुर्यात्क्षीरेण च सुसंस्कृताम्
अंगप्रत्यंगकोपेतामायुधैश्च समन्विताम् पद्मासनस्थितां कृत्वा पूजयेदादरेण हि
विघ्नेशादित्यविष्णूनामंबायाश्च शिवस्य च शिवस्यशिवलिंगं च सर्वदा पूजयेद्द्विज
षोडशैरुपचारैश्च कुर्यात्तत्फलसिद्धये पुष्पेण प्रोक्षणं कुर्यादभिषेकं समंत्रकम्
शाल्यन्नेनैव नैवेद्यं सर्वं कुडवमानतः गृहे तु कुडवं ज्ञेयं मानुषे प्रस्थमिष्यते
दैवे प्रस्थत्रयं योग्यं स्वयंभोः प्रस्थपञ्चकम् एवं पूर्णफलं विद्यादधिकं वै द्वयं त्रयम्
सहस्रपूजया सत्यं सत्यलोकं लभेद्द्विजः द्वादशांगुलमायामं द्विगुणं च ततो ऽधिकम्
प्रमाणमंगुलस्यैकं तदूर्ध्वं पञ्चकत्रयम् अयोदारुकृतं पात्रं शिवमित्युच्यते बुधैः
तदष्टभागः प्रस्थः स्यात्तच्चतुःकुडवं मतम् दशप्रस्थं शतप्रस्थं सहस्रप्रस्थमेव च
जलतैलादिगंधानां यथायोग्यं च मानतः मानुषार्षस्वयंभूनां महापूजेति कथ्यते
अभिषेकादात्मशुद्धिर्गंधात्पुण्यमवाप्यते आयुस्तृप्तिश्च नैवेद्याद्धूपादर्थमवाप्यते
दीपाज्ज्ञानमवाप्नोति तांबूलाद्भोगमाप्नुयात् तस्मात्स्नानादिकं षट्कं प्रयत्नेन प्रसाधयेत्
नमस्कारो जपश्चैव सर्वाभीष्टप्रदावुभौ पूजान्ते च सदाकार्यौ भोगमोक्षार्थिभिर्नरैः
संपूज्य मनसा पूर्वं कुर्यात्तत्तत्सदा नरः देवानां पूजया चैव तत्तल्लोकमवाप्नुयात्
तदवांतरलोके च यथेष्टं भोग्यमाप्यते तद्विशेषान्प्रवक्ष्यामि शृणुत श्रद्धया द्विजाः
विघ्नेशपूजया सम्यग्भूर्लोके ऽभीष्टमाप्नुयात् शुक्रवारे चतुर्थ्यां च सिते श्रावणभाद्रके
भिषगृक्षे धनुर्मासे विघ्नेशं विधिवद्यजेत् शतं पूजासहस्रं वा तत्संख्याकदिनैर्व्रजेत्
देवाग्निश्रद्धया नित्यं पुत्रदं चेष्टदं नृणाम् सर्वपापप्रशमनं तत्तद्दुरितनाशनम्
वारपूजांशिवादीनामात्मशुद्धिप्रदां विदुः तीथिनक्षत्रयोगानामाधारं सार्वकामिकम्
तथा बृद्धिक्षयाभावात्पूर्णब्रह्मात्मकं विदुः उदयादुदयं वारो ब्रह्मप्रभृति कर्मणाम्
तिथ्यादौ देवपूजा हि पूर्णभोगप्रदा नृणाम् पूर्वभागः पित्ःणां तु निशि युक्तः प्रशस्यते
परभागस्तु देवानां दिवा युक्तः प्रशास्यते उदयव्यापिनी ग्राह्या मध्याह्ने यदि सा तिथिः
देवकार्ये तथा ग्राह्यास्थिति ऋक्षादिकाः शुभाः सम्यग्विचार्य वारादीन्कुर्यात्पूजाजपादिकम्
पूजार्यते ह्यनेनेति वेदेष्वर्थस्य योजना पूर्णभोगफलसिद्धिश्च जायते तेन कर्मणा
मनोभावांस्तथा ज्ञानमिष्टभोगार्थयोजनात् पूजाशब्दर्थ एवं हि विश्रुतो लोकवेदयोः
नित्यनैमित्तिकं कालात्सद्यः काम्ये स्वनुष्ठिते नित्यं मासं च पक्षं च वर्षं चैव यथाक्रमम्
तत्तत्कर्मफलप्राप्तिस्तादृक्पापक्षयः क्रमात् महागणपतेः पूजा चतुर्थ्यां कृष्णपक्षके
पक्षपापक्षयकरी पक्षभोगफलप्रदा चैत्रे चतुर्थ्यां पूजा च कृता मासफलप्रदा