धनधान्याद्याश्रितानां दुरितानां निवारणम् जलस्नेहाद्याश्रितानां दुरितानां तु गोजलैः
कायिकादित्राणां तु क्षीरदध्याज्यकैस्तथा तथा तेषां च पुष्टिश्च विज्ञेया हि विपश्चिता
भूदानं तु प्रतिष्ठार्थमिह चा ऽमुत्र च द्विजाः तिलदानं बलार्थं हि सदा मृत्युजयं विदुः
हिरण्यं जाठराग्नेस्तु वृद्धिदं वीर्यदं तथा आज्यं पुष्टिकरं विद्याद्वस्त्रमायुष्करं विदुः
धान्यमन्नं समृद्ध्यर्थं मधुराहारदं गुडम् रौप्यं रेतोभिवृद्ध्यर्थं षड्रसार्थं तु लावणम्
सर्वं सर्वसमृद्ध्यर्थं कूष्मांडं पुष्टिदं विदुः प्राप्तिदं सर्वभोगानामिह चा ऽमुत्र च द्विजाः
यावज्जीवनमुक्तं हि कन्यादानं तु भोगदम् पनसाम्रकपित्थानां वृक्षाणां फलमेव च
कदल्याद्यौषधीनां च फलं गुल्मोद्भवं तथा माषादीनां च मुद्गानां फलं शाकादिकं तथा
मरीचिसर्षपाद्यानां शाकोपकरणं तथा यदृतौ यत्फलं सिद्धं तद्देयं हि विपश्चिता
श्रोत्रादींद्रियतृप्तिश्च सदा देया विपश्चिता शब्दादिदशभोगार्थं दिगादीनां च तुष्टिदा
वेदशास्त्रं समादाय बुद्ध्वा गुरुमुखात्स्वयम् कर्मणां फलमस्तीति बुद्धिरास्तिक्यमुच्यते
बंधुराजभयाद्बुद्धिश्रद्धा सा च कनीयसी सर्वाभावे दरिद्रस्तु वाचा वा कर्मणा यजेत्
वाचिकं यजनं विद्यान्मंत्रस्तोत्रजपादिकम् तीर्थयात्राव्रताद्यं हि कायिकं यजनं विदुः
येन केनाप्युपायेन ह्यल्पं वा यदि वा बहु देवतार्पणबुद्ध्या च कृतं भोगाय कल्पते
तपश्चर्या च दानं च कर्तव्यमुभयं सदा प्रतिश्रयं प्रदातव्यं स्ववर्णगुणशोभितम्
देवानां तृप्तये ऽत्यर्थं सर्वभोगप्रदं बुधैः इहा ऽमुत्रोत्तमं जन्मसदाभोगं लभेद्बुधः ईश्वरार्पणबुद्ध्या हि कृत्वा मोक्षफलं लभेत्
य इमं पठते ऽध्यायं यः शृणोति सदा नरः तस्य वैधर्मबुद्धिश्च ज्ञानसिद्धिः प्रजायते
पार्थिवप्रतिमापूजाविधानं ब्रूहि सत्तम येन पूजाविधानेन सर्वाभिष्टमवाप्यते
सुसाधुपृष्टं युष्माभिः सदा सर्वार्थदायकम् सद्यो दुःखस्य शमनं शृणुत प्रब्रवीमि वः
अपमृत्युहरं कालमृत्योश्चापि विनाशनम् सद्यः कलत्रपुत्रादिधनधान्यप्रदं द्विजाः
अन्नादिभोज्यं वस्त्रादिसर्वमुत्पद्यते यतः ततो मृदादिप्रतिमापूजाभीष्टप्रदा भुवि
पुरुषाणां च नारीणामधिकारोत्र निश्चितम् नद्यां तडागे कूपे वा जलांतर्मृदमाहरेत्
संशोध्य गंधचूर्णेन पेषयित्वा सुमंडपे हस्तेन प्रतिमां कुर्यात्क्षीरेण च सुसंस्कृताम्
अंगप्रत्यंगकोपेतामायुधैश्च समन्विताम् पद्मासनस्थितां कृत्वा पूजयेदादरेण हि
विघ्नेशादित्यविष्णूनामंबायाश्च शिवस्य च शिवस्यशिवलिंगं च सर्वदा पूजयेद्द्विज
षोडशैरुपचारैश्च कुर्यात्तत्फलसिद्धये पुष्पेण प्रोक्षणं कुर्यादभिषेकं समंत्रकम्
शाल्यन्नेनैव नैवेद्यं सर्वं कुडवमानतः गृहे तु कुडवं ज्ञेयं मानुषे प्रस्थमिष्यते
दैवे प्रस्थत्रयं योग्यं स्वयंभोः प्रस्थपञ्चकम् एवं पूर्णफलं विद्यादधिकं वै द्वयं त्रयम्
सहस्रपूजया सत्यं सत्यलोकं लभेद्द्विजः द्वादशांगुलमायामं द्विगुणं च ततो ऽधिकम्
प्रमाणमंगुलस्यैकं तदूर्ध्वं पञ्चकत्रयम् अयोदारुकृतं पात्रं शिवमित्युच्यते बुधैः