शिवभक्तस्य विप्रस्य दत्तं कैलासदं विदुः तत्तल्लोकोपभोगार्थं सर्वेषां दानमिष्यते
दशांगमन्नं विप्रस्य भानुवारे ददन्नरः परजन्मनि चारोग्यं दशवर्षं समश्नुते
बहुमानमथाह्वानमभ्यंगं पादसेवनम् वासो गंधाद्यर्चनं च घृतापूपरसोत्तरम्
षड्रसं व्यंजनं चैव तांबूलं दक्षिणोत्तरम् नमश्चानुगमश्चैव स्वन्नदानं दशांगकम्
दशांगमन्नं विप्रेभ्यो दशभ्यो वै ददन्नरः अर्कवारे तथा ऽ ऽरोग्यं शतवर्षं समश्नुते
सोमवारादिवारेषु तत्तद्वारगुणं फलम् अन्नदानस्य विज्ञेयं भूर्लोके परजन्मनि
सप्तस्वपि च वारेषु दशभ्यश्च दशांगकम् अन्नं दत्त्वा शतं वर्षमारोग्यादिकमश्नुते
एवं शतेभ्यो विप्रेभ्यो भानुवारे ददन्नरः सहस्रवर्षमारोग्यं शर्वलोके समश्नुते
सहस्रेभ्यस्तथा दत्त्वा ऽयुतवर्षं समश्नुते एवं सोमादिवारेषु विज्ञेयं हि विपश्चिता
भानुवारे सहस्राणां गायत्रीपूतचेतसाम् अन्नं दत्त्वा सत्यलोके ह्यारोग्यादि समश्नुते
अयुतानां तथा दत्त्वा विष्णुलोके समश्नुते अन्नं दत्त्वा तु लक्षाणां रुद्रलोके समश्नुते
बालानां ब्रह्मबुद्ध्या हि देयं विद्यार्थिभिर्नरैः यूनां च विष्णुबुद्ध्या हि पुत्रकामार्थिभिर्नरैः
वृद्धानां रुद्रबुद्ध्या हि देयं ज्ञानार्थिभिर्नरैः बालस्त्रीभारतीबुद्ध्या बुद्धिकामैर्नरोत्तमैः
लक्ष्मीबुद्ध्या युवस्त्रीषु भोगकामैर्नरोत्तमैः वृद्धासु पार्वतीबुद्ध्या देयमात्मार्थिभिर्जनैः
शिलवृत्त्योञ्छवृत्त्या च गुरुदक्षिणयार्जितम् शुद्धद्रव्यमिति प्राहुस्तत्पूर्णफलदं विदुः
शुक्लप्रतिग्रहाद्दत्तं मध्यमं द्रव्यमुच्यते कृषिवाणिज्यकोपेतमधमं द्रव्यमुच्यते
क्षत्रियाणां विशां चैव शौर्यवाणिज्यकार्जितम् उत्तमं द्रव्यमित्याहुः शूद्राणां भृतकार्जितम्
स्त्रीणां धर्मार्थिनां द्रव्यं पैतृकं भर्तृकं तथा गवादीनां द्वादशीनां चैत्रादिषु यथाक्रमम्
संभूय वा पुण्यकाले दद्यादिष्टसमृद्धये गोभूतिलहिरण्याज्यवासोधान्यगुडानि च
रौप्यं लवणकूष्मांडे कन्याद्वादशकं तथा गोदानाद्दत्तगव्येन गोमयेनोपकारिणा
धनधान्याद्याश्रितानां दुरितानां निवारणम् जलस्नेहाद्याश्रितानां दुरितानां तु गोजलैः
कायिकादित्राणां तु क्षीरदध्याज्यकैस्तथा तथा तेषां च पुष्टिश्च विज्ञेया हि विपश्चिता
भूदानं तु प्रतिष्ठार्थमिह चा ऽमुत्र च द्विजाः तिलदानं बलार्थं हि सदा मृत्युजयं विदुः
हिरण्यं जाठराग्नेस्तु वृद्धिदं वीर्यदं तथा आज्यं पुष्टिकरं विद्याद्वस्त्रमायुष्करं विदुः
धान्यमन्नं समृद्ध्यर्थं मधुराहारदं गुडम् रौप्यं रेतोभिवृद्ध्यर्थं षड्रसार्थं तु लावणम्
सर्वं सर्वसमृद्ध्यर्थं कूष्मांडं पुष्टिदं विदुः प्राप्तिदं सर्वभोगानामिह चा ऽमुत्र च द्विजाः
यावज्जीवनमुक्तं हि कन्यादानं तु भोगदम् पनसाम्रकपित्थानां वृक्षाणां फलमेव च
कदल्याद्यौषधीनां च फलं गुल्मोद्भवं तथा माषादीनां च मुद्गानां फलं शाकादिकं तथा
मरीचिसर्षपाद्यानां शाकोपकरणं तथा यदृतौ यत्फलं सिद्धं तद्देयं हि विपश्चिता
श्रोत्रादींद्रियतृप्तिश्च सदा देया विपश्चिता शब्दादिदशभोगार्थं दिगादीनां च तुष्टिदा