पतनात्त्रायत इति पात्रं शास्त्रे प्रयुज्यते दातुश्च पातकात्त्राणात्पात्रमित्यभिधीयते
गायकं त्रायते पाताद्गायत्रीत्युच्यते हि सा यथा ऽर्थहिनो लोके ऽस्मिन्परस्यार्थं न यच्छति
अर्थवानिह यो लोके परस्यार्थं प्रयच्छति स्वयं शुद्धो हि पूतात्मा नरान्सत्रातुमर्हति
गायत्रीजपशुद्धो हि शुद्धब्राह्मण उच्यते तस्माद्दाने जपे होमे पूजायां सर्वकर्मणि
दानं कर्तुं तथा त्रातुं पात्रं तु ब्राह्मणोर्हति अन्नस्य क्षुधितं पात्रं नारीनरमयात्मकम्
ब्राह्मणं श्रेष्ठमाहूय यत्काले सुसमाहितम् तदर्थं शब्दमर्थं वा सद्बोधकमभीष्टदम्
इच्छावतः प्रदानं च संपूर्णफलदं विदुः यत्प्रश्नानंतरं दत्तं तदर्थफलदं विदुः
यत्सेवकाय दत्तं स्यात्तत्पादफलदं विदुः जातिमात्रस्य विप्रस्य दीनवृत्तेर्द्विजर्षभाः
दत्तमर्थं हि भोगाय भूर्लोकेदशवार्षिकम् वेदयुक्तस्य विप्रस्य स्वर्गे हि दशवार्षिकम्
गायत्रीजपयुक्तस्य सत्ये हि दशवार्षिकम् विष्णुभक्तस्य विप्रस्य दत्तं वैकुंठदं विदुः
शिवभक्तस्य विप्रस्य दत्तं कैलासदं विदुः तत्तल्लोकोपभोगार्थं सर्वेषां दानमिष्यते
दशांगमन्नं विप्रस्य भानुवारे ददन्नरः परजन्मनि चारोग्यं दशवर्षं समश्नुते
बहुमानमथाह्वानमभ्यंगं पादसेवनम् वासो गंधाद्यर्चनं च घृतापूपरसोत्तरम्
षड्रसं व्यंजनं चैव तांबूलं दक्षिणोत्तरम् नमश्चानुगमश्चैव स्वन्नदानं दशांगकम्
दशांगमन्नं विप्रेभ्यो दशभ्यो वै ददन्नरः अर्कवारे तथा ऽ ऽरोग्यं शतवर्षं समश्नुते
सोमवारादिवारेषु तत्तद्वारगुणं फलम् अन्नदानस्य विज्ञेयं भूर्लोके परजन्मनि
सप्तस्वपि च वारेषु दशभ्यश्च दशांगकम् अन्नं दत्त्वा शतं वर्षमारोग्यादिकमश्नुते
एवं शतेभ्यो विप्रेभ्यो भानुवारे ददन्नरः सहस्रवर्षमारोग्यं शर्वलोके समश्नुते
सहस्रेभ्यस्तथा दत्त्वा ऽयुतवर्षं समश्नुते एवं सोमादिवारेषु विज्ञेयं हि विपश्चिता
भानुवारे सहस्राणां गायत्रीपूतचेतसाम् अन्नं दत्त्वा सत्यलोके ह्यारोग्यादि समश्नुते
अयुतानां तथा दत्त्वा विष्णुलोके समश्नुते अन्नं दत्त्वा तु लक्षाणां रुद्रलोके समश्नुते
बालानां ब्रह्मबुद्ध्या हि देयं विद्यार्थिभिर्नरैः यूनां च विष्णुबुद्ध्या हि पुत्रकामार्थिभिर्नरैः
वृद्धानां रुद्रबुद्ध्या हि देयं ज्ञानार्थिभिर्नरैः बालस्त्रीभारतीबुद्ध्या बुद्धिकामैर्नरोत्तमैः
लक्ष्मीबुद्ध्या युवस्त्रीषु भोगकामैर्नरोत्तमैः वृद्धासु पार्वतीबुद्ध्या देयमात्मार्थिभिर्जनैः
शिलवृत्त्योञ्छवृत्त्या च गुरुदक्षिणयार्जितम् शुद्धद्रव्यमिति प्राहुस्तत्पूर्णफलदं विदुः
शुक्लप्रतिग्रहाद्दत्तं मध्यमं द्रव्यमुच्यते कृषिवाणिज्यकोपेतमधमं द्रव्यमुच्यते
क्षत्रियाणां विशां चैव शौर्यवाणिज्यकार्जितम् उत्तमं द्रव्यमित्याहुः शूद्राणां भृतकार्जितम्
स्त्रीणां धर्मार्थिनां द्रव्यं पैतृकं भर्तृकं तथा गवादीनां द्वादशीनां चैत्रादिषु यथाक्रमम्
संभूय वा पुण्यकाले दद्यादिष्टसमृद्धये गोभूतिलहिरण्याज्यवासोधान्यगुडानि च
रौप्यं लवणकूष्मांडे कन्याद्वादशकं तथा गोदानाद्दत्तगव्येन गोमयेनोपकारिणा