सौम्यवारे तथा विष्णुं दध्यन्नेन यजेद्बुधः पुत्रमित्रकलत्रादिपुष्टिर्भवति सर्वदा
आयुष्कामो गुरोर्वारे देवानां पुष्टिसिद्धये उपवीतेन वस्त्रेण क्षीराज्येन यजेद्बुधः
भोगार्थं भृगवारे तु यजेद्देवान्समाहितः षड्रसोपेतमन्नं च दद्याद्ब्राह्मणतृप्तये
स्त्रीणां च तृप्तये तद्वद्देयं वस्त्रादिकं शुभम् अपमृत्युहरे मंदे रुद्राद्रींश्च यजेद्बुधः
तिलहोमेन दानेन तिलान्नेन च भोजयेत् इत्थं यजेच्च विबुधानारोग्यादिफलं लभेत्
देवानां नित्ययजने विशेषयजनेपि च स्नाने दाने जपे होमे ब्राह्मणानां च तर्पणे
तिथिनक्षत्रयोगे च तत्तद्देवप्रपूजने आदिवारादिवारेषु सर्वज्ञो जगदीश्वरः
ततद्रूपेण सर्वेषामारोग्यादिफलप्रदः देशकालानुसारेण तथा पात्रानुसारतः
द्रव्यश्रद्धानुसारेण तथा लोकानुसारतः तारतम्यक्रमाद्देवस्त्वारोग्यादीन्प्रयच्छति
शुभादावशुभांते च जन्मर्क्षेषु गृहे गृही आरोग्यादिसमृद्ध्यर्थमादित्यादीन्ग्रहान्यजेत्
तस्माद्वै देवयजनं सर्वाभीष्टफलप्रदम् समंत्रकं ब्राह्मणानामन्येषां चैव तांत्रिकम्
यथाशक्त्यानुरूपेण कर्तव्यं सर्वदा नरैः सप्तस्वपि च वारेषु नरैः शुभफलेप्सुभिः
दरिद्रस्तपसा देवान्यजेदाढ्यो धनेन हि पुनश्चैवंविधं धर्मं कुरुते श्रद्धया सह
पुनश्च भोगान्विविधान्भुक्त्वा भूमौ प्रजायते छायां जलाशयं ब्रह्मप्रतिष्ठां धर्मसंचयम्
सर्वं च वित्तवान्कुर्यात्सदा भोगप्रसिद्धये कालाच्च पुण्यपाकेन ज्ञानसिद्धिः प्रजायते
य इमं शृणुते ऽध्यायं पठते वा नरो द्विजाः श्रवणस्योपकर्ता च देवयज्ञफलं लभेत्
देशादीन्क्रमशो ब्रूहि सूत सर्वार्थवित्तम् शुद्धं गृहं समफलं देवयज्ञादिकर्मसु
ततो दशगुणं गोष्ठं जलतीरं ततो दश ततो दशगुणं बिल्वतुलस्यश्वत्थमूलकम्
ततो देवालयं विद्यात्तीर्थतीरं ततो दश ततो दशगुणं नद्यास्तीर्थनद्यास्ततो दश
सप्तगंगानदीतीरं तस्या दशगुणं भवेत् गंगा गोदावरी चैव कावेरी ताम्रपर्णिका
सिंधुश्च सरयू रेवा सप्तगंगाः प्रकीर्तिताः ततो ऽब्धितीरं दश च पर्वताग्रे ततो दश
सर्वस्मादधिकं ज्ञेयं यत्र वा रोचते मनः कृते पूर्णफलं ज्ञेयं यज्ञदानादिकं तथा
त्रेतायुगे त्रिपादं च द्वापरे ऽर्धं सदा स्मृतम् कलौ पादं तु विज्ञेयं तत्पादोनं ततोर्धके
शुद्धात्मनः शुद्धदिनं पुण्यं समफलं विदुः तस्माद्दशगुणं ज्ञेयं रविसंक्रमणे बुधाः
विषुवे तद्दशगुणमयने तद्दश स्मृतम् तद्दश मृगसंक्रांतौ तच्चंद्रग्रहणे दश
ततश्च सूर्यग्रहणे पूर्णकालोत्तमे विदुः जगद्रूपस्य सूर्यस्य विषयोगाच्च रोगदम्
अतस्तद्विषशांत्यर्थं स्नानदानजपां चरेत् विषशांत्यर्थकालत्वात्स कालः पुण्यदः स्मृतः
जन्मर्क्षे च व्रतांते च सूर्यरागोपमं विदुः महतां संगकालश्च कोट्यर्कग्रहणं विदुः
तपोनिष्ठा ज्ञाननिष्ठा योगिनो यतयस्तथा पूजायाः पात्रमेते हि पापसंक्षयकारणम्
चतुर्विंशतिलक्षं वा गायत्र्या जपसंयुतः ब्राह्मणस्तु भवेत्पात्रं संपूर्णफलभोगदम्