पञ्चावृत्तिः प्रकर्तव्या पुराणस्यास्य सद्धिया परं फलं समुद्दिश्य तत्प्राप्नोति न संशयः
पुरातनाश्च राजानो विप्रा वैश्याश्च सत्तमाः सप्तकृत्वस्तदावृत्त्यालभन्त शिवदर्शनम्
श्रोष्यत्यथापि यश्चेदं मानवो भक्तितत्परः इह भुक्त्वाखिलान्भोगानंते मुक्तिं लभेच्च सः
एतच्छिवपुराणं हि शिवस्यातिप्रियं परम् भुक्तिमुक्तिप्रदं ब्रह्मसंमितं भक्तिवर्धनम्
एतच्छिवपुराणस्य वक्तुः श्रोतुश्च सर्वदा सगणस्ससुतस्सांबश्शं करोतु स शंकरः