छत्त्रस्य मणिदंडस्य चंद्रस्येव शुचेरधः दिव्यसिंहासनारूढं देव्या सुयशया सह
श्रिया च वपुषा चैव त्रिभिश्चापि विलोचनैः प्राकारैरभिकृत्यानां प्रत्यभिज्ञापकं प्रभोः
अविलंघ्य जगत्कर्तुराज्ञापनमिवागतम् सर्वानुग्रहणं शंभोः साक्षादिव पुरःस्थितम्
शिलादतनयं साक्षाच्छ्रीमच्छूलवरायुधम् विश्वेश्वरगणाध्यक्षं विश्वेश्वरमिवापरम्
विश्वस्यापि विधात्ःणां निग्रहानुग्रहक्षमम् चतुर्बाहुमुदारांगं चन्द्ररेखाविभूषितम्
कंठे नागेन मौलौ च शशांकेनाप्यलंकृतम् सविग्रहमिवैश्वर्यं सामर्थ्यमिव सक्रियम्
समाप्तमिव निर्वाणं सर्वज्ञमिव संगतम् दृष्ट्वा प्रहृष्टवदनो ब्रह्मपुत्रः सहर्षिभिः
तस्थौ प्राञ्जलिरुत्थाय तस्यात्मानमिवार्पयन् अथ तत्रांतरे तस्मिन्विमाने चावनिं गते
प्रणम्य दण्डवद्देवं स्तुत्वा व्यज्ञापयन्मुनीम् षट्कुलीया इमे दीर्घं नैमिषे सत्रमास्थिताः आगता ब्रह्मणादिष्टाः पूर्वमेवाभिकांक्षया
श्रुत्वा वाक्यं ब्रह्मपुत्रस्य नंदीछित्त्वा पाशान्दृष्टिपातेन सद्यः शैवं धर्मं चैश्वरं ज्ञानयोगं दत्त्वा भूयो देवपार्श्वं जगाम
सनत्कुमारेण च तत्समस्तं व्यासाय साक्षाद्गुरवे ममोक्तम् व्यासेन चोक्तं महितेन मह्यं मया च तद्वः कथितं समासात्
नावेदविद्भ्यः कथनीयमेतत्पुराणरत्नं पुरशासनस्य नाभक्तशिष्याय च नास्तिकेभ्यो दत्तं हि मोहान्निरयं ददाति
मार्गेण सेवानुगतेन यैस्तद्दत्तं गृहीतं पठितं श्रुतं वा तेभ्यः सुखं धर्ममुखं त्रिवर्गं निर्वाणमंते नियतं ददाति
परस्परस्योपकृतं भवद्भिर्मया च पौराणिकमार्गयोगात् अतो गमिष्ये ऽहमवाप्तकामः समस्तमेवास्तु शिवं सदा नः
सूते कृताशिषि गते मुनयः सुवृत्ता यागे च पर्यवसिते महति प्रयोगे काले कलौ च विषयैः कलुषायमाणे वाराणसीपरिसरे वसतिं विनेतुः
अथ च ते पशुपाशमुमुक्षयाखिलतया कृतपाशुपतव्रताः अधिकृताखिलबोधसमाधयः परमनिर्वृतिमापुरनिंदिताः
एतच्छिवपुराणं हि समाप्तं हितमादरात् पठितव्यं प्रयत्नेन श्रोतव्यं च तथैव हि
नास्तिकाय न वक्तव्यमश्रद्धाय शठाय च अभक्ताय महेशस्य तथा धर्मध्वजाय च
एतच्छ्रुत्या ह्येकवारं भवेत्पापं हि भस्मसात् अभक्तो भक्तिमाप्नोति भक्तो भक्तिसमृद्धिभाक्
पुनः श्रुते च सद्भक्तिर्मुक्तिस्स्याच्च श्रुतेः पुनः तस्मात्पुनःपुनश्चैव श्रोतव्यं हि मुमुक्षुभिः
पञ्चावृत्तिः प्रकर्तव्या पुराणस्यास्य सद्धिया परं फलं समुद्दिश्य तत्प्राप्नोति न संशयः
पुरातनाश्च राजानो विप्रा वैश्याश्च सत्तमाः सप्तकृत्वस्तदावृत्त्यालभन्त शिवदर्शनम्
श्रोष्यत्यथापि यश्चेदं मानवो भक्तितत्परः इह भुक्त्वाखिलान्भोगानंते मुक्तिं लभेच्च सः
एतच्छिवपुराणं हि शिवस्यातिप्रियं परम् भुक्तिमुक्तिप्रदं ब्रह्मसंमितं भक्तिवर्धनम्
एतच्छिवपुराणस्य वक्तुः श्रोतुश्च सर्वदा सगणस्ससुतस्सांबश्शं करोतु स शंकरः