घटैः कमलिनीपत्रपुटैश्च कलशैः शिवैः कमण्डलुभिरन्यैश्च तादृशैः करकादिभिः
आत्मार्थं च परार्थं च देवतार्थं विशेषतः आनीयमानसलिलमात्तपुष्पं च नित्यशः
अंतर्जलशिलारूढैर्नीचानां स्पर्शशंकया आचारवद्भिर्मुनिभिः कृतभस्मांगधूसरैः
इतस्ततो ऽप्सु मज्जद्भिरिष्टशिष्टैः शिलागतैः तिलैश्च साक्षतैः पुष्पैस्त्यक्तदर्भपवित्रकैः
देवाद्यमृषिमध्यं च निर्वर्त्य पितृतर्पणम् निवेदयेदभिज्ञेभ्यो नित्यस्नानगतान् द्विजान्
स्थानेस्थाने कृतानेकबलिपुष्पसमीरणैः सौरार्घ्यपूर्वं कुर्वद्भिःस्थंडलेभ्यर्चनादिकम्
क्वचिन्निमज्जदुन्मज्जत्प्रस्रस्तगजयूथपम् क्वचिच्च तृषयायातमृगीमृगतुरंगमम्
क्वचित्पीतजनोत्तीर्णमयूरवरवारणम् क्वचित्कृततटाघातवृषप्रतिवृषोज्ज्वलम्
क्वचित्कारंडवरवैः क्वचित्सारसकूजितैः क्वचिच्च कोकनिनदैः क्वचिद्भ्रमरगीतिभिः
स्नानपानादिकरणैः स्वसंपद्द्रुमजीविभिः प्रणयात्प्राणिभिस्तैस्तैर्भाषमाणमिवासकृत्
कूलशाखिशिखालीनकोकिलाकुलकूजितैः आतपोपहतान्सर्वान्नामंत्रयदिवानिशम्
उत्तरे तस्य सरसस्तीरे कल्पतरोरधः वेद्यां वज्रशिलामय्यां मृदुले मृगचर्मणि
सनत्कुमारमासीनं शश्वद्बालवपुर्धरम् तत्कालमात्रोपरतं समाधेरचलात्मनः
उपास्यमानं मुनिभिर्योगींद्रैरपि पूजितम् ददृशुर्नैमिषेयास्ते प्रणताश्चोपतस्थिरे
यावत्पृष्टवते तस्मै प्रोचुः स्वागतकारणम् तुमुलः शुश्रुवे तावद्दिवि दुंदुभिनिस्वनः
ददृशे तत्क्षणे तस्मिन्विमानं भानुसन्निभम् गणेश्वरैरसंख्येयैः संवृतं च समंततः
अप्सरोगणसंकीर्णं रुद्रकन्याभिरावृतम् मृदंगमुरजोद्घुष्टं वेणुवीणारवान्वितम्
चित्ररत्नवितानाढ्यं मुक्तादामविराजितम् मुनिभिस्सिद्धगंधर्वैर्यक्षचारणकिन्नरैः
नृत्यद्भिश्चैव गायद्भिर्वादयद्भिश्च संवृतम् वीरगोवृषचिह्नेन विद्रमद्रुमयष्टिना
कृतगोपुरसत्कारं केतुना मान्यहेतुना तस्य मध्ये विमानस्य चामरद्वितयांतरे
छत्त्रस्य मणिदंडस्य चंद्रस्येव शुचेरधः दिव्यसिंहासनारूढं देव्या सुयशया सह
श्रिया च वपुषा चैव त्रिभिश्चापि विलोचनैः प्राकारैरभिकृत्यानां प्रत्यभिज्ञापकं प्रभोः
अविलंघ्य जगत्कर्तुराज्ञापनमिवागतम् सर्वानुग्रहणं शंभोः साक्षादिव पुरःस्थितम्
शिलादतनयं साक्षाच्छ्रीमच्छूलवरायुधम् विश्वेश्वरगणाध्यक्षं विश्वेश्वरमिवापरम्
विश्वस्यापि विधात्ःणां निग्रहानुग्रहक्षमम् चतुर्बाहुमुदारांगं चन्द्ररेखाविभूषितम्
कंठे नागेन मौलौ च शशांकेनाप्यलंकृतम् सविग्रहमिवैश्वर्यं सामर्थ्यमिव सक्रियम्
समाप्तमिव निर्वाणं सर्वज्ञमिव संगतम् दृष्ट्वा प्रहृष्टवदनो ब्रह्मपुत्रः सहर्षिभिः
तस्थौ प्राञ्जलिरुत्थाय तस्यात्मानमिवार्पयन् अथ तत्रांतरे तस्मिन्विमाने चावनिं गते
प्रणम्य दण्डवद्देवं स्तुत्वा व्यज्ञापयन्मुनीम् षट्कुलीया इमे दीर्घं नैमिषे सत्रमास्थिताः आगता ब्रह्मणादिष्टाः पूर्वमेवाभिकांक्षया
श्रुत्वा वाक्यं ब्रह्मपुत्रस्य नंदीछित्त्वा पाशान्दृष्टिपातेन सद्यः शैवं धर्मं चैश्वरं ज्ञानयोगं दत्त्वा भूयो देवपार्श्वं जगाम