प्राप्यानेन यथा मुक्तिरचिराद्भवतामपि स चायमर्थः सूच्येत युष्मद्दृष्टेन तेजसा
तत्र वः काल एवैष दैवादुपनतः स्वयम् प्रयात दक्षिणं मेरोः शिखरं देवसेवितम्
सनत्कुमारो यत्रास्ते मम पुत्रः परो मुनिः प्रतीक्ष्यागमनं साक्षाद्भूतनाथस्य नंदिनः
पुरा सनत्कुमारोपि दृष्ट्वापि परमेश्वरम् अज्ञानात्सर्वयोगीन्द्रमानी विनयदूषितः
अभ्युत्थानादिकं युक्तमकुर्वन्नतिनिर्भयः ततो ऽपराधात्क्रुद्धेन महोष्ट्रो नंदिना कृतः
अथ कालेन महता तदर्थे शोचता मया उपास्य देवं देवीञ्च नंदिनं चानुनीय वै
कथंचिदुष्ट्रता तस्य प्रयत्नेन निवारिता प्रापितो हि यथापूर्वं सनत्पूर्वां कुमारताम्
तदाह च महादेवः स्मयन्निव गणाधिपम् अवज्ञाय हि मामेव तथाहंकृतवान्मुनिः
अतस्त्वमेव याथात्म्यं ममास्मै कथयानघ ब्रह्मणः पूर्वजः पुत्रो मां मूढ इव संस्मरन्
मयैव शिष्यते दत्तो मम ज्ञानप्रवर्तकः धर्माध्यक्षाभिषेकं च तव निर्वर्तयिष्यति
स एवं व्याहृतो भूयस्सर्वभूतगणाग्रणीः यत्पराज्ञापनं मूर्ध्ना प्रातः प्रतिगृहीतवान्
तथा सनत्कुमारो ऽपि मेरौ मदनुशासनात् प्रसादार्थं गणस्यास्य तपश्चरति दुश्चरम्
द्रष्टव्यश्चेति युष्माभिः प्राग्गणेशसमागमात् तत्प्रसादार्थमचिरान्नंदी तत्रागमिष्यति
इति सत्वरमादिश्य प्रेषिता विश्वयोगिना कुमारशिखरं मेरोर्दक्षिणं मुनयो ययुः
तत्र स्कंदसरो नाम सरस्सागरसन्निभम् अमृतस्वादुशिशिरस्वच्छा गाधलघूदकम्
समंततः संघटितं स्फटिको पलसंचयैः सर्वर्तुकुसुमैः फुल्लैश्छादिताखिलदिङ्मुखम्
शैवलैरुत्पलैः पद्मैः कुमुदैस्तारकोपमैः तरंगैरभ्रसंकाशैराकाशमिव भूमिगम्
सुखावतरणारोहैः स्थलैर्नीलशिलामयैः सोपानमार्गौ रुचिरैश्शोभमानाष्टदिङ्मुखम्
तत्रावतीर्णैश्च यथा तत्रोत्तीर्णश्च भूयसा स्नातैः सितोपवीतैश्च शुक्लाकौपीनवल्कलैः
जटाशिखायनैर्मुंडैस्त्रिपुंड्रकृतमंडनैः विरागविवशस्मेरमुखैर्मुनिकुमारकैः
घटैः कमलिनीपत्रपुटैश्च कलशैः शिवैः कमण्डलुभिरन्यैश्च तादृशैः करकादिभिः
आत्मार्थं च परार्थं च देवतार्थं विशेषतः आनीयमानसलिलमात्तपुष्पं च नित्यशः
अंतर्जलशिलारूढैर्नीचानां स्पर्शशंकया आचारवद्भिर्मुनिभिः कृतभस्मांगधूसरैः
इतस्ततो ऽप्सु मज्जद्भिरिष्टशिष्टैः शिलागतैः तिलैश्च साक्षतैः पुष्पैस्त्यक्तदर्भपवित्रकैः
देवाद्यमृषिमध्यं च निर्वर्त्य पितृतर्पणम् निवेदयेदभिज्ञेभ्यो नित्यस्नानगतान् द्विजान्
स्थानेस्थाने कृतानेकबलिपुष्पसमीरणैः सौरार्घ्यपूर्वं कुर्वद्भिःस्थंडलेभ्यर्चनादिकम्
क्वचिन्निमज्जदुन्मज्जत्प्रस्रस्तगजयूथपम् क्वचिच्च तृषयायातमृगीमृगतुरंगमम्
क्वचित्पीतजनोत्तीर्णमयूरवरवारणम् क्वचित्कृततटाघातवृषप्रतिवृषोज्ज्वलम्
क्वचित्कारंडवरवैः क्वचित्सारसकूजितैः क्वचिच्च कोकनिनदैः क्वचिद्भ्रमरगीतिभिः
स्नानपानादिकरणैः स्वसंपद्द्रुमजीविभिः प्रणयात्प्राणिभिस्तैस्तैर्भाषमाणमिवासकृत्