तदा ते हिमवत्पादात्पंततीं दक्षिणामुखीम् दृष्ट्वा भागीरथी तत्र स्नात्वा तत्तीरतो ययुः
ततो वाराणसीं प्राप्य मुदितास्सर्व एव ते तदोत्तरप्रवाहायां गंगायामवगाह्य च
अविमुक्तेश्वरं लिंगं दृष्ट्वाभ्यर्च्य विधानतः प्रयातुमुद्यतास्तत्र ददृशुर्दिवि भास्वरम्
सूर्यकोटिप्रतीकाशं तेजोदिव्यं महाद्भुतम् आत्मप्रभावितानेन व्याप्तसर्वदिगन्तरम्
अथ पाशुपताः सिद्धाः भस्मसञ्छन्नविग्रहाः मुनयो ऽभ्येत्य शतशो लीनाः स्युस्तत्र तेजसि
तथा विलीयमानेषु तपस्विषु महात्मसु सद्यस्तिरोदधे तेजस्तदद्भुतमिवाभवत्
तद्दृष्ट्वा महदाश्चर्यं नैमिषीया महर्षयः किमेतदित्यजानन्तो ययुर्ब्रह्मवनं प्रति
प्रागेवैषां तु गमनात्पवनो लोकपावनः दर्शनं नैमिषीयाणां संवादस्तैर्महात्मनः
शद्धां बुद्धिं ततस्तेषां सांबे सानुचरे शिवे समाप्तिं चापि सत्रस्य दीर्घपूर्वस्य सत्रिणाम्
विज्ञाप्य जगतां धात्रे ब्रह्मणे ब्रह्मयोनये स्वकार्ये तदनुज्ञातो जगाम स्वपुरं प्रति
अथ स्थानगतो ब्रह्मा तुम्बुरोर्नारदस्य च परस्पर स्पर्धितयोर्गाने विवदमानयोः
तदुद्भावितगानोत्थरसैर्माध्यस्थमाचरन् गन्धर्वैरप्सरोभिश्च सुखमास्ते निषेवितः
तदानवसरादेव द्वाःस्थैर्द्वारि निवारिताः मुनयो ब्रह्मभवनाद्बहिः पार्श्वमुपाविशन्
अथ तुम्बुरुणा गाने समतां प्राप्य नारदः साहचर्येष्वनुज्ञातो ब्रह्मणा परमेष्ठिना
त्यक्त्वा परस्परस्पर्धां मैत्रीं च परमां गतः सह तेनाप्सरोभिश्च गन्धर्वैश्च समावृतः
उपवीणयितुं देवं नकुलीश्वरमीश्वरम् भवनान्निर्ययौ धातुर्जलदादंशुमानिव
तं दृष्ट्वा षट्कुलीयास्ते नारदं मुनिगोवृषम् प्रणम्यावसरं शंभोः पप्रच्छुः परमादरात्
स चावसर एवायमितोंतर्गम्यतामिति वदन्ययावन्यपरस्त्वरया परया युतः
ततो द्वारि स्थिता ये वै ब्रह्मणे तान्न्यवेदयन् तेन ते विविशुर्वेश्म पिंडीभूयांडजन्मनः
प्रविश्य दूरतो देवं प्रणम्य भुवि दंडवत् समीपे तदनुज्ञाताः परिवृत्योपतस्थिरे
तांस्तत्रावस्थितान् पृष्ट्वा कुशलं कमलासनः वृत्तांतं वो मया ज्ञातं वायुरेवाह नो यतः
भवद्भिः किं कृतं पश्चान्मारुतेंतर्हिते सति इत्युक्तवति देवेशे मुनयो ऽवभृथात्परम्
गंगातीर्थेस्य गमनं यात्रां वाराणसीं प्रति दर्शनं तत्र लिंगानां स्थापितानां सुरेश्वरैः
अविमुक्तेश्वरस्यापि लिंगस्याभ्यर्चनं सकृत् आकाशे महतस्तस्य तेजोराशेश्च दर्शनम्
मुनीनां विलयं तत्र निरोधं तेजसस्ततः याथात्म्यवेदनं तस्य चिंतितस्यापि चात्मभिः
सर्वं सविस्तरं तस्मै प्रणम्याहुर्मुहुर्मुहुः मुनिभिः कथितं श्रुत्वा विश्वकर्मा चतुर्मुखः
कंपयित्वा शिरः किंचित्प्राह गंभीरया गिरा प्रत्यासीदति युष्माकं सिद्धिरामुष्मिकी परा
भवद्भिर्दीर्घसत्रेण चिरमाराधितः प्रभुः प्रसादाभिमुखो भूत इति भुतार्थसूचितम्
वाराणस्यां तु युष्माभिर्यद्दृष्टं दिवि दीप्तिमत् तल्लिंगसंज्ञितं साक्षात्तेजो माहेश्वरं परम्
तत्र लीनाश्च मुनयः श्रौतपाशुपतव्रताः मुक्ता बभूवुः स्वस्थाश्च नैष्ठिका दग्धकिल्बिषाः