तस्माच्छीघ्रतरा मुक्तिस्तस्य संसारमंडलात् एतेष्वन्यतमोपायं कथमप्यवलम्ब्य वा
षडध्वशुद्धिं विधिवत्प्राप्तो वा म्रियते यदि पशूनामिव तस्येह न कुर्यादौर्ध्वदैहिकम्
नैवाशौचं प्रपद्येत तत्पुत्रादिविशेषतः शिवचारार्थमथवा शिवविद्यार्थमेव वा खनेद्वा भुवि तद्देहं दहेद्वा शुचिनाग्निना
क्षिपेद्वाप्सु शिवास्वेव त्यजेद्वा काष्ठलोष्टवत् अथैनमपि चोद्दिश्य कर्म चेत्कर्तुमीप्सितम्
कल्याणमेव कुर्वीत शक्त्या भक्तांश्च तर्पयेत् धनं तस्य भजेच्छैवः शैवी चेतस्य सन्ततिः
इति स विजितमन्योर्यादवेनोपमन्योरधिगतमभिधाय ज्ञानयोगं मुनिभ्यः प्रणतिमुपगतेभ्यस्तेभ्य उद्भावितात्मा सपदि वियति वायुः सायमन्तर्हितो ऽभूत्
ततः प्रभातसमये नैमिषीयास्तपोधनाः सत्रान्ते ऽवभृथं कर्तुं सर्व एव समुद्ययुः
तदा ब्रह्मसमादेशाद्देवी साक्षात्सरस्वती प्रसन्ना स्वादुसलिला प्रावर्तत नदीशुभा
सरस्वतीं नदीं दृष्ट्वा मुनयो हृष्टमानसाः समाप्य सत्रं प्रारब्धं चक्रुस्तत्रावगाहनम्
अथ संतर्प्य देवादींस्तदीयैः सलिलैः शिवैः स्मरन्तः पूर्ववृत्तान्तं ययुर्वाराणसीं प्रति
तदा ते हिमवत्पादात्पंततीं दक्षिणामुखीम् दृष्ट्वा भागीरथी तत्र स्नात्वा तत्तीरतो ययुः
ततो वाराणसीं प्राप्य मुदितास्सर्व एव ते तदोत्तरप्रवाहायां गंगायामवगाह्य च
अविमुक्तेश्वरं लिंगं दृष्ट्वाभ्यर्च्य विधानतः प्रयातुमुद्यतास्तत्र ददृशुर्दिवि भास्वरम्
सूर्यकोटिप्रतीकाशं तेजोदिव्यं महाद्भुतम् आत्मप्रभावितानेन व्याप्तसर्वदिगन्तरम्
अथ पाशुपताः सिद्धाः भस्मसञ्छन्नविग्रहाः मुनयो ऽभ्येत्य शतशो लीनाः स्युस्तत्र तेजसि
तथा विलीयमानेषु तपस्विषु महात्मसु सद्यस्तिरोदधे तेजस्तदद्भुतमिवाभवत्
तद्दृष्ट्वा महदाश्चर्यं नैमिषीया महर्षयः किमेतदित्यजानन्तो ययुर्ब्रह्मवनं प्रति
प्रागेवैषां तु गमनात्पवनो लोकपावनः दर्शनं नैमिषीयाणां संवादस्तैर्महात्मनः
शद्धां बुद्धिं ततस्तेषां सांबे सानुचरे शिवे समाप्तिं चापि सत्रस्य दीर्घपूर्वस्य सत्रिणाम्
विज्ञाप्य जगतां धात्रे ब्रह्मणे ब्रह्मयोनये स्वकार्ये तदनुज्ञातो जगाम स्वपुरं प्रति
अथ स्थानगतो ब्रह्मा तुम्बुरोर्नारदस्य च परस्पर स्पर्धितयोर्गाने विवदमानयोः
तदुद्भावितगानोत्थरसैर्माध्यस्थमाचरन् गन्धर्वैरप्सरोभिश्च सुखमास्ते निषेवितः
तदानवसरादेव द्वाःस्थैर्द्वारि निवारिताः मुनयो ब्रह्मभवनाद्बहिः पार्श्वमुपाविशन्
अथ तुम्बुरुणा गाने समतां प्राप्य नारदः साहचर्येष्वनुज्ञातो ब्रह्मणा परमेष्ठिना
त्यक्त्वा परस्परस्पर्धां मैत्रीं च परमां गतः सह तेनाप्सरोभिश्च गन्धर्वैश्च समावृतः
उपवीणयितुं देवं नकुलीश्वरमीश्वरम् भवनान्निर्ययौ धातुर्जलदादंशुमानिव
तं दृष्ट्वा षट्कुलीयास्ते नारदं मुनिगोवृषम् प्रणम्यावसरं शंभोः पप्रच्छुः परमादरात्
स चावसर एवायमितोंतर्गम्यतामिति वदन्ययावन्यपरस्त्वरया परया युतः
ततो द्वारि स्थिता ये वै ब्रह्मणे तान्न्यवेदयन् तेन ते विविशुर्वेश्म पिंडीभूयांडजन्मनः
प्रविश्य दूरतो देवं प्रणम्य भुवि दंडवत् समीपे तदनुज्ञाताः परिवृत्योपतस्थिरे