अत्यल्पो ऽपि यथा दीपः सुमहन्नाशयेत्तमः योगाभ्यासस्तथाल्पो ऽपि महापापं विनाशयेत्
ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम् यद्भवेत्सुमहच्छ्रेयस्तस्यांतो नैव विद्यते
नास्ति ध्यानसमं तीर्थं नास्ति ध्यानसमं तपः नास्ति ध्यानसमो यज्ञस्तस्माद्ध्यानं समाचरेत्
तीर्थानि तोयपूर्णानि देवान्पाषाणमृन्मयान् योगिनो न प्रपद्यंते स्वात्मप्रत्ययकारणात्
योगिनां च वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् यथा स्थूलमयुक्तानां मृत्काष्ठाद्यैः प्रकल्पितम्
यथेहांतश्चरा राज्ञः प्रियाः स्युर्न बहिश्चराः तथांतर्ध्याननिरताः प्रियाश्शंभोर्न कर्मिणः
बहिस्करा यथा लोके नातीव फलभोगिनः दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः
यद्यंतरा विपद्यंते ज्ञानयोगार्थमुद्यतः योगस्योद्योगमात्रेण रुद्रलोकं गमिष्यति
अनुभूय सुखं तत्र स जातो योगिनां कुले ज्ञानयोगं पुनर्लब्ध्वा संसारमतिवर्तते
जिज्ञासुरपि योगस्य यां गतिं लभते नरः न तां गतिमवाप्नोति सर्वैरपि महामखैः
द्विजानां वेदविदुषां कोटिं संपूज्य यत्फलम् भिक्षामात्रप्रदानेन तत्फलं शिवयोगिने
यज्ञाग्निहोत्रदानेन तीर्थहोमेषु यत्फलम् योगिनामन्नदानेन तत्समस्तं फलं लभेत्
ये चापवादं कुर्वंति विमूढाश्शिवयोगिनाम् श्रोतृभिस्ते प्रपद्यन्ते नरकेष्वामहीक्षयात्
सति श्रोतरि वक्तास्यादपवादस्य योगिनाम् तस्माच्छ्रोता च पापीयान्दण्ड्यस्सुमहतां मतः ये पुनः सततं भक्त्या भजंति शवयोगिनः
ते विदंति महाभोगानंते योगं च शांकरम् भोगार्थिभिर्नरैस्तस्मात्संपूज्याः शिवयोगिनः
प्रतिश्रयान्नपानाद्यैः शय्याप्रावरणादिभिः योगधर्मः ससारत्वादभेद्यः पापमुद्गरैः
वज्रतंदुलवज्ज्ञेयं तथा पापेन योगिनः न लिप्यंते च तापौघैः पद्मपत्रं यथांभसा
यस्मिन्देशे वसेन्नित्यं शिवयोगरतो मुनिः सो ऽपि देशो भवेत्पूतः सपूत इति किं पुनः
तस्मात्सर्वं परित्यज्य कृत्यमन्यद्विचक्षणः सर्वदुःखप्रहाणाय शिवयोगं समभ्यसेत्
सिद्धयोगफलो योगी लोकानां हितकाम्यया भोगान्भुक्त्वा यथाकामं विहरेद्वात्र वर्तताम्
अथवा क्षुद्रमित्येव मत्वा वैषयिकं सुखम् त्यक्त्वा विरागयोगेन स्वेच्छया कर्म मुच्यताम्
यस्त्वासन्नां मृतिं मर्त्यो दृष्टारिष्टं च भूयसा स योगारम्भनिरतः शिवक्षेत्रं समाश्रयेत्
स तत्र निवसन्नेव यदि धीरमना नरः प्राणान्विनापि रोगाद्यैः स्वयमेव परित्यजेत्
कृत्वाप्यनशनं चैव हुत्वा चांगं शिवानले क्षिप्त्वा वा शिवतीर्थेषु स्वदेहमवगाहनात्
शिवशास्त्रोक्तविधिवत्प्राणान्यस्तु परित्यजेत्
रोगाद्यैर्वाथ विवशः शिवक्षेत्रं समाश्रितः म्रियते यदि सोप्येवं मुच्यते नात्र संशयः
यथा हि मरणं श्रेष्ठमुशंत्यनशनादिभिः शास्त्रविश्रंभधीरेण मनसा क्रियते यतः
शिवनिन्दारतं हत्वा पीडितः स्वयमेव वा यस्त्यजेद्दुस्त्यजान्प्राणान्न स भूयः प्रजायते
शिवनिन्दारतं हंतुमशक्तो यः स्वयं मृतः सद्य एव प्रमुच्येत त्रिः सप्तकुलसंयुतः
शिवार्थे यस्त्यजेत्प्राणाञ्छिवभक्तार्थमेव वा न तेन सदृशः कश्चिन्मुक्तिमार्गस्थितो नरः