तेन निर्विषया बुद्धिः केवलेह प्रवर्तते तस्मात्सविषयं ध्यानं बालार्ककिरणाश्रयम्
सूक्ष्माश्रयं निर्विषयं नापरं परमार्थतः यद्वा सविषयं ध्यानं तत्साकारसमाश्रयम्
निराकारात्मसंवित्तिर्ध्यानं निर्विषयं मतम् निर्बीजं च सबीजं च तदेव ध्यानमुच्यते
निराकारश्रयत्वेन साकाराश्रयतस्तथा तस्मात्सविषयं ध्यानमादौ कृत्वा सबीजकम्
अंते निर्विषयं कुर्यान्निर्बीजं सर्वसिद्धये प्राणायामेन सिध्यंति देव्याः शांत्यादयः क्रमात्
शांतिः प्रशांतिर्दीप्तिश्च प्रसादश्च ततः परम् शमः सर्वापदां चैव शांतिरित्यभिधीयते
तमसो ऽन्तबहिर्नाशः प्रशान्तिः परिगीयते बहिरन्तःप्रकाशो यो दीप्तिरित्यभिधीयते
स्वस्थता या तु सा बुद्धः प्रसादः परिकीर्तितः कारणानि च सर्वाणि सबाह्याभ्यंतराणि च
बुद्धेः प्रसादतः क्षिप्रं प्रसन्नानि भवन्त्युत ध्याता ध्यानं तथा ध्येयं यद्वा ध्यानप्रयोजनम् एतच्चतुष्टयं ज्ञात्वा ध्याता ध्यानं समाचरेत्
ज्ञानवैराग्यसंपन्नो नित्यमव्यग्रमानसः श्रद्दधानः प्रसन्नात्मा ध्याता सद्भिरुदाहृतः
ध्यै चिंतायां स्मृतो धातुः शिवचिंता मुहुर्मुहुः
योगाभ्यासस्तथाल्पे ऽपि यथा पापं विनाशयेत् ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम्
अव्याक्षिप्तेन मनसा ध्यानमित्यभिधीयते
बुद्धिप्रवाहरूपस्य ध्यानस्यास्यावलंबनम् ध्येयमित्युच्यते सद्भिस्तच्च सांबः स्वयं शिवः
विमुक्तिप्रत्ययं पूर्णमैश्वर्यं चाणिमादिकम् शिवध्यानस्य पूर्णस्य साक्षादुक्तं प्रयोजनम्
यस्मात्सौख्यं च मोक्षं च ध्यानादभयमाप्नुयात् तस्मात्सर्वं परित्यज्य ध्यानयुक्तो भवेन्नरः
नास्ति ध्यानं विना ज्ञानं नास्ति ध्यानमयोगिनः ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः
ज्ञानं प्रसन्नमेकाग्रमशेषोपाधिवर्जितम् योगाभ्यासेन युक्तस्य योगिनस्त्वेव सिध्यति
प्रक्षीणाशेषपापानां ज्ञाने ध्याने भवेन्मतिः पापोपहतबुद्धीनां तद्वार्तापि सुदुर्लभा
यथावह्निर्महादीप्तः शुष्कमार्द्रं च निर्दहेत् तथा शुभाशुभं कर्म ध्यानाग्निर्दहते क्षणात्
अत्यल्पो ऽपि यथा दीपः सुमहन्नाशयेत्तमः योगाभ्यासस्तथाल्पो ऽपि महापापं विनाशयेत्
ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम् यद्भवेत्सुमहच्छ्रेयस्तस्यांतो नैव विद्यते
नास्ति ध्यानसमं तीर्थं नास्ति ध्यानसमं तपः नास्ति ध्यानसमो यज्ञस्तस्माद्ध्यानं समाचरेत्
तीर्थानि तोयपूर्णानि देवान्पाषाणमृन्मयान् योगिनो न प्रपद्यंते स्वात्मप्रत्ययकारणात्
योगिनां च वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् यथा स्थूलमयुक्तानां मृत्काष्ठाद्यैः प्रकल्पितम्
यथेहांतश्चरा राज्ञः प्रियाः स्युर्न बहिश्चराः तथांतर्ध्याननिरताः प्रियाश्शंभोर्न कर्मिणः
बहिस्करा यथा लोके नातीव फलभोगिनः दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः
यद्यंतरा विपद्यंते ज्ञानयोगार्थमुद्यतः योगस्योद्योगमात्रेण रुद्रलोकं गमिष्यति
अनुभूय सुखं तत्र स जातो योगिनां कुले ज्ञानयोगं पुनर्लब्ध्वा संसारमतिवर्तते
जिज्ञासुरपि योगस्य यां गतिं लभते नरः न तां गतिमवाप्नोति सर्वैरपि महामखैः