अग्नियज्ञदेवयज्ञं ब्रह्मयज्ञं तथैव च गुरुपूजां ब्रह्मतृप्तिं क्रमेण ब्रूहि नः प्रभो
अग्नौ जुहोति यद्द्रव्यमग्नियज्ञः स उच्यते ब्रह्मचर्याश्रमस्थानां समिदाधानमेव हि
समिदग्रौ व्रताद्यं च विशेषयजनादिकम् प्रथमाश्रमिणामेवं यावदौपासनं द्विजाः
आत्मन्यारोपिताग्नीनां वनिनां यतिनां द्विजाः हितं च मितमेध्यान्नं स्वकाले भोजनं हुतिः
औपासनाग्निसंधानं समारभ्य सुरक्षितम् कुंडे वाप्यथ भांडे वा तदजस्रं समीरितम्
अग्निमात्मन्यरण्यां वा राजदैववशाद्ध्रुवम् अग्नित्यागभयादुक्तं समारोपितमुच्यते
संपत्करी तथा ज्ञेया सायमग्न्याहुतिर्द्विजाः आयुष्करीति विज्ञेया प्रातः सूर्याहुतिस्तथा
अग्नियज्ञो ह्ययं प्रोक्तो दिवा सूर्यनिवेशनात् इंद्रादीन्सकलान्देवानुद्दिश्याग्नौ जुहोतियत्
देवयज्ञं हि तं विद्यात्स्थालीपाकादिकान्क्रतून् चौलादिकं तथा ज्ञेयं लौकिकाग्नौ प्रतिष्ठितम्
ब्रह्मयज्ञं द्विजः कुर्याद्देवानां तृप्तये सकृत् ब्रह्मयज्ञ इति प्रोक्तो वेदस्या ऽध्ययनं भवेत्
नित्यानंतरमासोयं ततस्तु न विधीयते अनग्नौ देवयजनं शृणुत श्रद्धयादरात्
आदिसृष्टौ महादेवः सर्वज्ञः करुणाकरः सर्वलोकोपकारार्थं वारान्कल्पितवान्प्रभुः
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् आदावारोग्यदं वारं स्ववारं कृतवान्प्रभुः
संपत्कारं स्वमायाया वरं च कृतवांस्ततः जनने दुर्गतिक्रांते कुमारस्य ततः परम्
आलस्यदुरितक्रांत्यै वारं कल्पितवान्प्रभुः रक्षकस्य तथा विष्णोर्लोकानां हितकाम्यया
पुष्ट्यर्थं चैव रक्षार्थं वारं कल्पितवान्प्रभुः आयुष्करं ततो वारमायुषां कर्तुरेव हि
त्रैलोक्यसृष्टिकर्तुर्हि ब्रह्मणः परमेष्ठिनः जगदायुष्यसिद्ध्यर्थं वारं कल्पितवान्प्रभुः
आदौ त्रैलोक्यवृद्ध्यर्थं पुण्यपापे प्रकल्पिते तयोः कर्त्रोस्ततो वारमिंद्रस्य च यमस्य च
भोगप्रदं मृत्युहरं लोकानां च प्रकल्पितम् आदित्यादीन्स्वस्वरूपान्सुखदुःखस्य सूचकान्
वारेशान्कल्पयित्वादौ ज्योतिश्चक्रेप्रतिष्ठितान् स्वस्ववारे तु तेषां तु पूजा स्वस्वफलप्रदा
आरोग्यं संपदश्चैव व्याधीनां शांतिरेव च पुष्टिरायुस्तथा भोगो मृतेर्हानिर्यथाक्रमम्
वारक्रमफलं प्राहुर्देवप्रीतिपुरःसरम् अन्येषामपि देवानां पूजायाः फलदः शिवः
देवानां प्रीतये पूजापञ्चधैव प्रकल्पिता तत्तन्मंत्रजपो होमो दानं चैव तपस्तथा
स्थंडिले प्रतिमायां च ह्यग्नौ ब्राह्मणविग्रहे समाराधनमित्येवं षोडशैरुपचारकैः
उत्तरोत्तरवैशिष्ट्यात्पूर्वाभावे तथोत्तरम् नेत्रयोः शिरसो रोगे तथा कुष्ठस्य शांतये
आदित्यं पूजयित्वा तु ब्राह्मणान्भोजयेत्ततः दिनं मासं तथा वर्षं वर्षत्रयमथवापि वा
प्रारब्धं प्रबलं चेत्स्यान्नश्येद्रोगजरादिकम् जपाद्यमिष्टदेवस्य वारादीनां फलं विदुः
पापशांतिर्विशेषेण ह्यादिवारे निवेदयेत् आदित्यस्यैव देवानां ब्राह्मणानां विशिष्टदम्
सोमवारे च लक्ष्म्यादीन्संपदर्थं यजेद्बुधः आज्यान्नेन तथा विप्रान्सपत्नीकांश्च भोजयेत्
काल्यादीन्भौम वारे तु यजेद्रोगप्रशांतये माषमुद्गाढकान्नेन ब्रह्मणांश्चैव भोजयेत्